पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

" । सुबालोपनिषत् २५५ अहङ्कारमेवाप्येति । योऽहङ्कारमेवास्तमेति, अहङ्कर्तव्यमेमाप्येति । योऽहङ्कर्तव्यमेवास्तमेति, रुद्रमेवाप्येति । यो रुद्रमेवास्तमेति, असुरामेवाप्येति । योऽसुरामेवास्तमेति, श्वेतमेवाप्येति । यः श्वेतमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्द- मेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। चित्तमेवाप्येति । यश्चित्तमेवास्तमेति, चेतयितव्यमेवाप्येति । यश्चेतयितव्यमेवास्तमेति, क्षेत्रज्ञमेवाप्येति । यः क्षेत्रज्ञमेवास्तमेति, भास्वतीमेवाप्येति । यो भास्वतीमेवास्तमेति; नागमेवाप्येति । यो नागमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति होवाच ।। य एवं निर्बीजं वेद, निर्बीज एव स भवति । न जायते, न म्रियते, न मुह्यते, न भिद्यते, न दह्यते, न छिद्यते, न कम्पते, न कुप्यते, सर्वदहनोऽयमात्मेत्याचक्षते । नैवमात्मा प्रवचनशतेनापि लभ्यते, न बहुश्रुतेन, न बुद्धिज्ञाना- निर्बीजत्वेन परमत्मनिर्देशफलं दर्शयति य एवं निर्बीजमिति । निर्बीज एवेति । जन्मप्रबन्धहेतुपुण्यपापरहित एव भवतीत्यर्थः । एवञ्च जन्माभावे तदनुषक्ता अन्येऽपि विकारा नावकाशं लभन्त इत्याह न जायते न म्रियत इति । न भिद्यत इत्यादि च, अच्छद्योऽय. मदाह्योऽयमक्लेद्योऽशोष्य एव चेति गीताम् । निरवयत्वादीसौ न केनापि भूतेन प्रविश्य नाश्येतेति । सर्वदहन इति । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते' इति प्रपञ्चहेतु कर्मदाहिज्ञानभासुर इत्यर्थः । पञ्चदशखण्डे वक्ष्यमाणं सर्वदहनत्वमपि द्रष्टव्यम् । परमात्मलाभोपायत्वेन प्रमागप्रतिपन्न नां वैराग्याभावे अनुपायत्वमाह नैवमात्मा शतेनापीत्यादिना । ' नायमात्मा प्रवचनेन', 'न वेद यज्ञाध्ययनैर्न दाने ' इत्यादिस्थल इव इद्दार्थो भाव्यः । एवमात्मा एवम्भूत आत्मा । प्रवचनपदेन अध्यापनविवक्षायाम् बुद्धिज्ञानाश्रितपदेन " प्रवचन- ,