पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

२५६ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता सुबालोप. १०. श्रितेन, न मेधया, न वैदैर्न यज्ञैर्न तपोभिरुग्रैर्न सांख्यैर्न योगै र्नाश्रमैः । नान्यैरात्मानमुपलभन्ते । प्रवचनेन प्रशंसया व्युत्थानेन तमेतं ब्राह्मणाः शुश्रुवांसोऽनूचाना उपलभन्ते । शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति । सर्वस्यात्मा भवति, य एवं वेद ।। इति नवमः खण्डः - || अथ दशमः खण्डः ॥ अथ हैन रैक्वः पप्रच्छ - भगवन् ! कस्मिन् सर्वे सम्प्रतिष्ठिता भवन्तीति । रसातललोकेष्विति होवाच । कस्मिन् रसातललोका ओताश्च प्रोताश्चेति । भूर्लॊकेष्विति होवाच । कस्मिन् भूर्लोका ओताश्च प्रोताश्चेति । भुवर्लोकेष्विति होवाच । कस्मिन् भुवर्लोका ओताश्च प्रोताश्चेति । सुवर्लोकेष्विति होवाच । कस्मिन् सुवर्लोका ओताश्च प्रोताश्चेति । महर्लोकेष्विति होवाच । कस्मिन्महरलोका ओताश्च प्रोताश्चेति । जनोलोकेष्विति होवाच । कस्मिन् जनोलोका ओताश्च प्रोताश्चेति । तपोलोकेष्विति होवाच । कस्मिं- मनन ग्रहणम् ; व्यत्यासो वा । बुद्धिः मनसो निरूपसामर्थ्यम् । ज्ञान तदधीनो विवेकः । तदाश्रितमालम्बनसंशीलनादीति वा। मेधा ध्यानम् , सांख्यं ज्ञानयोगः । योगः कर्मयोगैः । अन्यैः दानहोमादिभिः । आवश्यकः परिकर उच्यते व्युत्थानेनेति । 'पुत्रैषणायाश्च वित्तैषणा याश्च लोकैषणायाश्च व्युत्थाये' ति प्रयोगात् व्युत्थानं यथार्ह वैराग्यम् ; न पुनः योगात् व्युत्थानम् । सत्यस्मिन् पूर्वोक्तप्रवचनादिकमपि सहकारीति ज्ञापयितुम् प्रवचनेनेति । इदमुक्तसर्वोपलक्षणम् । प्रशंसा उत्तमश्लोकगुणानुवादादिः। व्युत्थायेति निषिद्धवर्जनस्य सर्वस्योपलक्षणम् । तद विव्रियते शान्त इत्यादिना । आत्मन्येव देह एव । न हि देहाभावे आत्मा द्रष्टुं शक्यते । आत्मनि जीवत्मनि इति वा । एतद्दर्शनफलमाह सर्वस्यात्मा भवति य एवं वेदेति वेद, पश्यतीत्यर्थः । इति सौबालनवमखण्डपरिष्कारः । . -- तमसः परस्तात् परमात्मप्राप्त्या निर्वाणमनन्तरखण्डे वक्ष्यन् तमःप्रकृ'तिकेऽत्र प्रपञ्चे सर्वस्य लोकस्य तादृश परमात्मैकप्रतिष्टितत्वमिह प्राह । तेन सर्वस्य हेयत्वम् , सर्वातिक्रमणेनान्यत्र नयनसमर्थत्वादि तस्य च ज्ञापितं भवन्ति । तथा षष्ठे यत् आरब्धम् , अमूलमनाधारम् इति, तत्र अमूलत्वं तेन खण्डेन सर्वोत्पत्तिकारणत्वबोधिना, अव्यवहितपूर्वखण्डेन च लयहेतुत्वबोधिना विवृतमासीत् । अनापारत्वं तु विवरीतुमयं खण्डः । अनेन अनन्तरखण्डवक्ष्यमाणापुनर्भवाख्यनाडीव्यतिरिक्तनाडीप्राप्याश्चानित्या लोका अधिगमिता भवन्तीति ।