पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २५७ स्तपोलोका ओताश्च प्रोताश्चेति । सत्यलोकष्विति होवाच । कस्मिन् सत्यलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेष्विति होवाच । कस्मिन् प्रजापतिलोका ओताश्च प्रोताश्चेति । ब्रह्मलोकेष्विति होवाच । कस्मिन् ब्रह्मलोका ओताश्च प्रोताश्चेति । सर्वलोका आत्मनि ब्रह्मणि मणय इवौताश्च प्रोताश्चेति । स होवाच-एवमेतान् लोकान् आत्मनि प्रतिष्ठितान् वेद, आत्मैव स भवति । इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ॥ इति सुबालोपनिषदि दशमः खण्डः । -- (११) ।। अथैकादशः खण्डः ॥ अथ हैनं रैक्वः पप्रच्छ-भगवन् ! योऽयं विज्ञानघन उत्क्रामन् , स केन कतरद्वाव स्थानमुत्सृज्यापक्रामतीति। तस्मै स होवाच-हृदयस्य मध्ये लोहितं मांसपिण्डम् , यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितम् । तस्य मध्ये समुद्रः । समुद्रस्य मध्ये कोशः । तस्मिन् नाड्यश्वतस्रो भवन्ति रमाऽरमेच्छाऽपुनर्भवेति । तत्र रमा पुण्येन पुण्यं लोकं नयति । अरमा पापेन 1 1 सत्यलोकपदेन चतुर्मुखस्य तत्पुत्राणां प्रजापतीनाञ्च स्थानात् अन्यस्य तदधीनप्रजावासभूतस्य सत्यलोकांशस्य ग्रहणम् । मणय इवेति ! सूत्रे इति शेषः । तथा च नीयते, मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव' इति । ओताश्च प्रोताश्चेति पूर्णव्याप्तिकथनम् । इति सौबालदशमखण्डपरिष्कारः। (११) एवममूलस्यानाधारस्य नारायणस्य चक्षुरादन्तर्यामितयोपासनानि उपवर्ण्य, पूर्वखण्डदर्शितसर्वलोक - तन्मूलप्रकृतिमण्डलातीतस्य षष्टखण्डसंदर्शितस्य स्थानस्य प्राप्तिरूपमुपासनफलं वक्तुं गतिप्रकारं दर्शयितुमारभते अथ हैनमिति : नाडीश्वतस्रो नाम्ना निर्दिशति रमेत्यादिना । तत्तन्नाडीद्वारा प्राप्यं स्थानमाह तत्र रमेत्यादिना। अत एवान्वर्थानि नामानि । मोक्षार्थोपासनस्यैव प्रकृतत्वात् अपुनर्भवाख्यनाडीसाध्यगतिमेव विस्तरेण विचक्षुः तत्राप्युपनिषदन्तराधिगता- 33