पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

२५८ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता [सुबालोप. ११. पापम् । इच्छया यत् स्मरति, तदभिसम्पद्यते । अपुनर्भवया कोशं भिनत्ति । कोशं भित्त्वा शीर्षकपालं भिनत्ति। शीर्षकपालं भित्त्या पृथिवीं भिनत्ति । पृथिवीं भित्त्वाऽपो भिनत्ति । अपो भित्वा तेजो भिनत्ति । तेजो भित्त्ावा वायु भिनत्ति। वायु भित्त्वाऽऽकाशं भिनत्ति । आकाशं भित्त्वा मनो भिनत्ति । मनो भित्त्वा भूतादि भिनत्ति । भूतादि भित्त्वा महान्तं भिनत्ति। महान्तं भित्त्वा- ऽव्यक्तं भिनत्ति । अव्यक्त भित्त्वाऽक्षरं भिनत्ति । अक्षरं भित्त्वा मृत्युं भिनत्ति । दर्थादतिरिक्तमाह अपुनर्भवयेत्यादिना । कोशं हृदयकोशम् । पृथिवीं भिनत्तीत्यादेः ब्रह्माण्डावरणभूताण्डकटाहतदावरणसमष्टिसलिलात्यादिभेदनपरत्वं कार्याधिकरणश्रुतप्रकाशिकायामुक्तम् । अतः शीर्षस्थ कपालभेदनात् परं आवरणपृथिवीभेदनात् पूर्वम् अर्चिरादिभिरब्ज. योनिपर्यन्तैः स्वस्वस्थाने अतिवाह्यमानत्वमप्यन्यश्रुतिशतश्रावितमनुसंधेयम् । मनो भिनत्तीति । आकाशभेदेन-भूतादिरूपाहङ्कारभेदनमध्यपाटात् स्थानात् मनश्शब्दः शब्दतन्मात्रपरः। इन्द्रियाणि तन्मात्रेष्विति प्रागुक्तरीत्या तत्र सृष्टयारम्भे प्रलये च मनादीन्द्रियसंसर्गात् मनःपदेन तदुक्तिः । न च तन्मात्रस्य आवरणभावे किं प्रमाणमिति वाच्यम्-अनेनैव वचनेन आवरणत्वानुमानात् । अनावरणत्वेऽपि आकाशकारणत्व-अहङ्कारकार्यत्वसद्भावमात्रेणापि तद्भेदनकथनोपपत्तेः । अस्तु वा सात्त्विकाहङ्कारो मनःपदविवक्षितः। आकाशकारणत्वस्य तत्राभावेऽपि, तत्कारणत्वस्य भूतादावभावेऽपि च तत्तदंशभेदनक्रमविवक्षया एवमुपवर्णनसंभवात् । मृत्युमिति तमसो विवक्षेत्यपि स्थानप्रमाणादरगतमेव । न चाविनाश्यस्याभेद्यस्य तमसः कथं भेदनमिति वाच्यम्। अप्रतिघातिद्रव्याणां भेदनस्यानपेक्षिततया तत्तदतिक्रमस्यैव तत्तभेदनपदविवक्षितत्वात् । मृत्युभेदनानन्तरं किमिति जिज्ञासायां परस्तान्नसदित्यादि वक्ष्यन् , कथं मृत्युभेदना- नन्तरमन्यस्य भेदनं नास्तीति शङ्कानुन्मेषाय, यस्मात् मृत्योः कारणमन्यत्रास्ति, मृत्योः परे देवे एकीभावात् , तस्मात् तदुपरि भेदनीयं न किश्चिदिति ज्ञापयितुमाह मृत्युर्वै इति । वैशब्दः, 'तमः परे देव एकीभवती' ति प्रागुक्तं हीति प्रसिद्धिं दर्शयति । अत्र, मृत्योः परे इति प्रथमखण्डभाष्ये अनुवादः तत्रतत्र, अपुनर्भवाय कोशमिति चतुर्थ्यन्तानुवादवत् लेखकप्रमादकृत इति ध्येयम् । परस्तादिति । मृत्योरुपरीत्यर्थः । अत्र परस्तादित्यस्य एकीमावानन्तरमिति नार्थः । एकीभावस्य प्रकरणार्थत्वाभावात् । एकीभवतीति इति इतिशब्देन तस्यहेतुत्वेन समर्पितत्वाच्च । मृत्युभेदानन्तरमित्यर्थस्तु अनन्वयात् नेष्यते । न हि मुमुक्षोरुत्क्रान्तस्य मृत्युभूतप्रकृत्यतिक्रमरूपभेदनात् पश्चात् सदसदादिविलक्षणमेवेह प्रकृतिमण्डलेऽस्ति । तस्य मुक्तिभागित्वेऽपि प्रपञ्चस्य सद्भावेन प्रलय इव तावन्मात्रस्थितिकथनायोगात् । अतः, 'दिग्देशकालेष्वस्तातिः' इति देशेऽपि स्मरणात् देशपरोऽयमस्तातिः। तत्र मृत्युभेदनादुपरिदेश इत्यर्थायोगात् मृत्युदेशादुपरीत्यर्थं आश्रयितव्यः । यद्यपीह, 'नसन्नासन्नसदसत्' इत्यनेन प्रकृति- ,