पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २५९ मृत्युर्वै परे देव एकीभवतीति परस्तानसन्न्नासन्नसदसत् । इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् इति वेदानुशासनम् ॥ इति सुबालोपनिषदि एकादशः खण्डः ॥ अथ द्वादशः खण्डः ।। ओं नारायणाद्वा अन्नमागतं पक्वं ब्रह्मलोके महासंवर्तके पुनः पक्व- प्राकृतप्रपञ्चरूपसृष्टिप्रलयगोचर - कार्यकारणभावापन्नलीलाविभूतिविलक्षणो मोगविभूतिरूपो देशो विवक्षितुं युक्त:-अथापि पूर्वम् , ' तस्मात् तमः संजायते' इति नसदित्यायुक्तस्य तमआविर्भावा - पादानत्वकथनात् नसदादिपदेन परमात्मविवक्षा अवर्जनीयेति ध्येयम् । नित्यविभूतिविशिष्टपरमात्मपरत्वमस्तु इति चेत्-काममस्तु । परस्तादिति वाक्ये द्वितीयखण्ड इव अस्तीत्यध्याहारं विहाय, प्राप्नोतीति वा प्राप्यत इति वाऽध्याहारे तु परस्तादित्यस्य मृत्युभेदनानन्तरमित्यर्थः स्यात् । इति सौबालैकादशखण्डपरिष्कारः - (१२) एवं जगज्जन्मस्थितिध्वसहेतुर्नारायणाख्यं सर्वान्तरं परं तत्त्वम् , तदुपासनम् , तत्फलञ्च मृत्युपर्यन्तं स्थानमुत्सृज्यापक्रम्य तदुपरितनदेशविशेषप्राप्तिरूपमुपवर्णितमिति, वक्तव्यं सर्वमुक्तमेव । उक्तांशान्तर्भूतमेव किंचिद्विशदीक्रियते, यथा गीतासु द्वादशाध्यायपर्यन्तोक्तप्रपञ्चनमेव परैरध्यायैः तथा, ओं नारायणाद्वा इत्यादिना [प्रतिखण्डमश्रूयमाणस्य प्रणवस्यात्र परं श्रवणात् उक्तार्थस्यैव पुनर्विशदीकरणार्थमारम्भ इति व्यज्यते । अथवा ओमिति उक्तोपासनमन्त्रनिर्देशः । वक्ष्यते हि महत् पदमिति । अथवा ओमिति चतुर्दशखण्ड इव स्थितं न श्रुत्यानुपूर्वानिविष्टम् । ] अत्र खण्डे अयाचितोपनतेन देहधारणं कार्यमित्युपदिश्यते । व्युत्थानेन तमेतमुपलभन्ते इति प्रागुक्तम् । पुत्रवित्तादिकं परित्यक्तवतो देहधारणस्याप्यशक्यत्वे स्थिते कथं परमात्मशुश्रूषा ? कथंतराञ्च साक्षात्कारपर्यन्ततदुपलम्भप्रसक्तिरित्यत्र अयाचितोपनतेन वर्तमान उपलभेतेत्युच्यत इह । ' यः सर्वज्ञः सर्ववित् -- तस्मादेतद् ब्रह्म नामरूपमन्नञ्च जायते', 'तस्माद्वा एतस्मादात्मनः ओषधीभ्योऽन्नम् ' इत्युक्तरीत्या नारायणसृष्टमेव अन्नं प्राकृतं वस्तु तन्नाभिकमलोदभवेन चतुर्मुखेन व्यष्टिपृथिव्यादिसृष्टिकाले पक्वं जीवजातभोगार्ह कृतम् । अथ चतुर्मुखपुत्रे रुद्रे पक्वम् । रुद्र एव महासंवर्तकः । संपूर्वकस्य वृतुधातोः प्रलयोऽर्थः । समित्येकीभावे। प्रलयकारिषु यमादिषु रुद्रो महानिति स महासंवर्तकः । तस्य चतुर्मुखवरप्रसादलब्धाष्टमुर्त्यैश्वर्यतया पञ्चभूतात्मकतन्मूर्त्यन्तर्गतत्वादन्नस्य, तस्मिन् अस्य पक्वता । अथ भूतपञ्चकचन्द्रादित्ययजमानरूपरुद्रमूर्तिनिविष्टत्वादादित्यस्य, 'आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजाः स्मनः 1