पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२६२ श्रीवीरराघाचार्यविरचितपरिष्कारयुक्ता [सुबालोप. १४. (१४) ॥ अथ चतुर्दशः खण्डः ॥ ओं पृथिवी वान्नमापोऽन्नादाः आपो वान्नं ज्योतिरन्नादं ज्योतिर्वान्नं वायुरन्नादो वायुर्वान्नमाकाशोऽन्नाद आकाशो वान्नमिन्द्रियाण्यन्नादानि । इन्द्रियाणि वान्नं मनोऽन्नादं मनोवान्नं बुद्धिन्नादा बुद्धिर्वान्नमव्यक्तमन्नादमव्यक्तं वान्नमक्षरमन्नादमक्षरं वान्नं मृत्युरन्नादः। मृत्युर्वै परे देव एकीभवतीति। परस्तान्नपन्नासन्नसदसत् । इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदाशासनम् ।। इति सुबालोपनिषदि चतुर्दशः खण्डः । ॥ अथ पञ्चदशः खण्डः ॥ अथ हैनं रैक्वः पप्रच्छ-भगवन् योऽयं विज्ञानघन उत्क्रामन् , स केन कतरद्वाव स्थानं दहतीति । तसै स होवाच-योऽयं विज्ञानधन (१४) चतुर्दशे खण्डे, सत्त्वानां मृत्यौ लयः शरीरस्य पाच्चभौतिकत्वात् भूतद्वारैव भवतीति व्युत्पादनार्थ पूर्वोक्तप्रलयप्रक्रियैवानूद्यते। इन्द्रियाणीति शब्दतन्मात्रग्रहणम् । मन इति अहंकारस्य ; बुद्धिरिति महतः। इति सौबालचतुर्दशखण्डपरिष्कारः । , मुमुक्षुर्निष्पन्नोपासनः किं पाञ्चभौतिकदेहलयस्थानभूतपृथिव्यादिलये क्रमेण तमःपर्यन्तं जाते पश्चादेव मुक्तो भवत, किं वा चरमशरीरप्रहाणसमनन्तरमेवेति लयक्रमप्रतिपादकपूर्वखण्डानुसारेण विशये जाते, सत्स्वेव सर्वेषु वस्तुषु ज्ञानाग्निदग्धसर्वकर्मतया कर्मायत्तसर्वाचेतनद्रव्यदाहिसामर्थ्यसंपन्नस्यास्य विषये सर्व दग्धबीजप्रायमङ्कुरोद्भेदासमर्थ भवतीति न प्रारब्धकर्मालवसानक्षणभाविमोक्षप्रतिबन्ध इत्युपपादयितुं पञ्चदशः खण्डः प्रारभ्यते । केन कतरदिति । सर्वदाहित्वे संमन्यमाने विद्यामाहात्म्येन दहतीति कारणं सुज्ञानम् । कतिपयमात्रदाहित्वे तु तदुचितं कारणान्तरं विमृश्यं स्यादिति कृत्वा प्रश्नवाक्ये केनेत्यस्य घटनम् । एतत्सूचनायैव 'योऽयं विज्ञानघन इति विशेषनिर्देशः । सर्वदाहित्वस्य संमतत्वात् विद्यामाहात्म्यरूपकारणस्य विज्ञानघन इत्यत एवं विज्ञानसंभवात् न कारणं निर्देष्टव्यमस्तीति उत्तरवाक्यमध्ये केनेत्ये-