पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २६३ - उत्क्रामन् , प्राण दहत्यपानं व्यानमुदानं समानं वैरम्भं मुख्यमन्तर्यामं प्रभञ्जनं कुमारं श्येनं श्वेतं कृष्णं नागं दहति । पृथिव्यापस्तेजोय्वाकाशं दहति । जागरितं स्वप्नं सुषुप्तं तुरीयं च महतां च लोकं परं च लोकं दहति । लोकालोकं दहति । धर्माधर्म दहत्यभास्करममर्यादं निरालोकमतः परं दहति । महान्तं दह्त्यव्यक्तं दहत्यक्षरं दहति । मृत्युं दहति । मृत्यु परे देव एकीभवतीति । परस्तानसन्नासन्नसदसत् । इत्येतनिर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ॥ इति सुबालोपनिषदि पञ्चदशःः खण्डः । ॥ अथ षोडशः खण्डः ॥ सौबालबीजब्रह्मोपनिषत् नाप्रशान्ताय दातव्या ; नापुत्राय: नाशिष्याय; नासंवत्सररात्रोषिताय । नापरिज्ञातकुलशीलाय दातव्या; नैव च प्रवक्तव्या । यस्य देव परा भक्तिर्यथा देवे तथा गुगै। तदुत्तरघटनोपेक्षणमिति ध्येयम् । प्राणमिति । प्राणापानादयः चतुर्दश वायुविशेषाः प्रागुक्ता एव । दहतीत्यस्य स्थितमपि कार्याक्षमं करोतीत्यर्थः । पृथिव्यापस्तेज इत्यत्र पृथिव्यप्तेज इति पाठः स्यात् । छान्दसो वा प्रयोगः । द्वितीयान्तत्वस्याऽऽवश्यकत्वात् । लोकालोकम् भास्करकिरणसापेक्षप्राकाशं कियदंशे, किञ्चिदंशे च तदनपेक्षं स्थानम् । अभास्करमित्यादिना अहङ्कारपर्यन्तसमष्टिग्रहणम् ॥ इति सौबालपञ्चदशखण्डपरिष्कारः । एतदुपनिषद्विद्यायाः परतत्त्वस्वरूपरप्रतितन्त्रभृतशरीरात्मभावादिविस्पष्टदर्शित्वात् परमं गोपनीयत्वमुच्यते षोडशे खण्डे | सौबालबीजब्रह्मोपनिषत् सौबालश्रुत्यन्तमूलक ब्रह्मविद्या । अपु- त्राय अशिष्याय पुत्रशिष्यव्यतिरिक्ताय । असंवत्सररात्रोषिताय संवत्सरसंख्याकदिनगणकृतगुरुकुलवासपुरषव्यतिरिक्ताय । दातव्या प्रथममुपदेष्टव्या। प्रवक्तव्या अर्थविशदीकरणेन चिन्तनार्थमुपपादयितव्या । यस्य देव इति मन्त्रः श्वेताश्वतरीयेऽपि । देवे 'दिव्यो देव एको नारायणः इति प्रागुक्ते एकस्मिन् अभङ्गुरदेवभावे जगद्वयापारलीले श्रीमन्नारायणे । यथा देवे तशा गुरौ । साक्षान्नारायणो देवः कृत्वा मर्त्यमयीं तनुम् । मग्नानुद्धरते लोकान् कारुण्यात् - 2