पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

। . । २६४ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता सुबालोपनिषत् १६. तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।। इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।। इति मुबालोपनिषदि षोडशः खण्डः । [ओं पूर्णमदः--- इति शान्तिः] ॥ इति शुक्लयजुर्वेदीया सुबालोपनिषत् ।। श्रीरस्तु। शास्त्रपाणिना' इत्युक्तरीत्या देवो नारायण एव गुरुरूपेणावतीर्णः । देवो देवत्वावस्थायां क्रोधादपि किञ्चित् कुर्यात् , शस्त्रेण च पातयेत् घातयेच्च । अस्यां पुनरवस्थायां कारुण्यादेव करोति- शास्त्रेण च पाणिना भवपारावारमग्नानुद्धरति चेति अतिशयिताऽपि युज्यते भक्तिरत्र । तत्र तावती वा भक्तिः कथं न युक्तेति । एते कथिताः पञ्चदशभिः खण्डैः कविता । गुरुभक्तिविरहिणस्तु कथिता अभ्यर्थाः स्वतः प्रकाशन्ते । एते अथिता इति पदच्छे दे,-गुरुभक्तिरस्ति चेत्, तदनुग्रहेग अकथिता अप्यर्था- स्वतः प्रकाशन्त इत्यर्थः। महात्मन इति ! वासुदेवः सर्वमिति स महात्मा सुदुर्लभः इति गीतम् । वासुदेव इव गुरावपि तादृग्भक्तिशाली तु मुख्यो महात्मेति भावः , अस्मिन् खण्डे पूर्व विद्यागोपनस्य पश्चात् गुरुभक्तिप्रकर्षस्य चावश्यकत्योपदेशात् ; 'गुरुं प्रकाशयेद् धीमान् मन्त्रं यत्नेन गोपयेत्' इतीदमीदृशश्रुत्युबृंहणनवेति विज्ञेयम् ।। १६ ।। गुरुणोभयमीमांसावल्लभत्वेन मानितः । यः पूर्वोत्तरमीमांसाप्रदीपस्तर्कवारिधिः विहितानेकसद्ग्रन्थो वात्स्यः श्रीवीरराघवः । तेन वेदान्तसौमित्रिमुनिपादाब्जसेविना ॥ श्रीरङ्गरामावरजमुनिसेवात्तसद्विया । ईशायुपनिषदभाष्यपरिष्कारविधायिना ।। प्राच्यव्याकृतपञ्चांश। सौबालोपनिषत् परा। इत्थं षोडशखण्डात्मा परिष्कारेण भूषिता ।। अनपायदयाम्भोधिरच्छस्फटिकसप्रभः । अस्तु लक्ष्मीहयग्रीवो देवस्तृप्तो गतिः सताम् ।। इति श्रीवात्स्यसच्चक्रवर्तिवीराघवाचार्यकृतिषु उपनिषद्भाष्यपरिष्कारे सौबालपरिष्कारः संपूर्णः ।। ।। शुभमस्तु । 1: 14