पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः सुबालोपनिषदर्थसंग्रहकारिकाः सुबालोपनिषत् शुक्लयजुर्वेदे क्वचित् स्थिता । एषा पोडशखण्डात्मा वक्ति नारायणं परम् ।। १ ।। नसन्नासन्नसदसत् प्रलये वस्तु तद्भवाः । समष्टिय॑ष्टयो ब्रह्मा वर्णाद्याश्चाऽऽद्य ईरिताः ॥ २ ॥ वेदवैदिकवाक्सृष्टिर्यत् किञ्च मिथुनोद्भवम् । तत्सृष्टिश्च द्वितीयोक्ता लयक्रमसमन्विता ।। ३ ।। तृतीये तस्य चिदचिद्वैलक्षण्यविभावके । षडङ्गसाध्यमुदितं मुक्तये तदुपासनम् ॥ ४ ॥ जाग्रत्स्वप्नसुषुप्त्युक्तया ततो वैराग्यवर्धनम् । चक्षुरादीनि करणान्युपादाय चतुर्दश ।। प्रत्येकमष्टके प्रोक्तं ध्यानं तस्याऽऽत्मनस्ततः । नारायणात्म चाशेषं परमञ्च पदं ततः ।। ५.६ ॥ शरीरात्मस्वरूपोऽर्थः सप्तमे साम्प्रदायिकः । एवं सर्वशरिरित्वेऽप्यनवद्यत्वमष्टमे ॥ ७ ॥ उपासिते लयोऽथोक्तो निर्बीजे विलयात्मकः । दशमेऽस्मिन्ननाधारे सर्वाधारत्वमीरितम् ॥ ८ ॥ अपुनर्भवया नाड्या मुक्तिदेशगतिस्ततः । वृत्तिस्त्वयाचितेनाथ तिष्ठासा बाल्यधैर्यतः ॥ १॥ मुक्तत्यक्तशरीरादि प्राप्य भूतादिरूपताम् । अस्त्या लयादिति व्यक्त्यै अन्ववादि लयक्रमः ॥ १० स्वबन्धने जगत् सर्वं क्षीणशक्ति वितन्वतः । मुक्तिः पञ्चदशे प्रोक्ता गुप्तिर्भक्तिश्च षोडशे ॥ ११ । सौबाले स्पष्टमव्यक्ताद्यचित्तत्त्वं शरीरता । नारायणस्य पारम्यं बाल्यतत्त्वादि चोदितम् ॥ १२ ॥ ॥शुभमस्तु ।