पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

- 1 , श्री: अग्निरहस्यम् * माध्यन्दिनः ---- शतपथब्राह्मणे - दशम काण्डम् ।। १०-५-२. यदेतन्मण्डलं तपति, तन्महदुक्थम् , ता ऋचः, सऋचाँल्लोकः । अथ यदेतदर्चिद्र्दीप्यते, तन्महाव्रतम् , तानि सामानि, स साम्नाँ लोकः। अथ य एष एतस्मिन् मण्डले पुरुषः, सोऽग्निः, तानि यजूँषि, स यजुषाँल्लोकः ॥ १ ॥ सैषा तय्येव विद्या तपति । तद्वैतदप्यविद्वाँस आहुः - त्रयी वा एषा विद्या तपतीति । वाग्धैव तत् पश्यन्ती वदति ॥२॥ स एष एव मृत्युः, य एष एतस्मिन् मण्डले पुरुषः । अथैतदमृतम् , यदेतदर्च्चिर्दीप्यते । तस्मान्मृत्युर्न म्रियतेऽमृते ह्यन्तः । तस्म्मादु न दृश्यतेऽ- मृते ह्यन्तः ॥ ३ ॥ नत्त्र संपूर्णमग्निरहस्यं व्याख्यायते; किन्तु यावदपेक्षितम् । श्री: श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । अग्निरहस्यपरिष्कारः श्रिया सह वृषाचलाञ्चलवनीषु शृङ्गारिणे दयादिगुणसद्मने दनुजलोकसंहारिणे । क्रियामयमनोमयक्रतुसमर्च्य॑भूम्नेऽपि ते मयाऽद्य भगवन्नयं शुभकरोऽस्तु बद्धोऽञ्जलिः ।। यदेतन्मण्डलं तपतीत्यादिकमिदं ब्राह्मणं यद्यपि भाष्यकृता न व्याख्यातम् --- अथापि उत्तरब्राह्मणविषयविचारात्मके पूर्वविकल्पाधिकरणे, "परेण च शब्दस्य ताद्विध्यं - इति सूत्रे परशब्देन तदुपरितनब्राह्मणस्येव चकारेण तत्पूर्वभूतस्य एतद्राह्मणस्यापि उत्तरब्राह्मणस्य क्रतुशेषत्वरहितप्रधानविद्याविशेषप्रतिपादकत्वे दृष्टान्ततयोपात्तत्वात् , तत्पूर्वसूत्रे, "न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः" इत्यत्र मृत्युवदिति एतद्राह्मणविषयस्य दृष्टान्तीकरणात् , पूर्वविकल्पाधिकरणभूतानन्तराधिकरणशरीरेभावाधिकरणादिषु, एतद्राह्मणगतस्य, 'तं यथा यथोपासते, तदेव भवति' इति तत्क्रतुन्यायवाक्यस्य असकृदुदाहरणाच्च एतद् ब्राह्मणमपि वैशद्याय द्रष्टव्यं भवतीति सह प्रकाश्यते । अस्मिन् अग्निरहस्यब्राह्मणे मण्डलपुरुषे आदौ अग्रित्वभावानां ततो मृत्युत्वभावनाश्च

. ,