पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

, अग्निरहस्यम् २६७ तदेष श्लोको भवति, अन्तरं मृत्योरमृतमिति । अवरँ ह्येतन्मृत्योरमृतम् । मृत्यावमृतमाहितमिति । एतस्मिन् हि पुरुष एतन्मण्डलं प्रतिष्ठितं तपति ! मृत्युर्विवस्वन्तं वस्त इति। असौ वा आदित्यो विवस्वान्। एष ह्यहोरात्रे विवस्ते। तमेष वस्ते। सर्वतो ह्येनेन परिवृतः। मृत्योरात्मा विवस्वतीति। एतस्मिन् हि मण्डल एतस्य पुरुषस्यात्मा। एतदेष श्लोको भवति ॥४॥ तयोर्वा एतयोः उभयोरेतस्य चार्चिष एतस्य च पुरुषस्यैतन्मण्डलं प्रतिष्ठा । तस्मान्महदुक्थं परस्मै न °संत , नेदेतां प्रतिष्ठा छिनदा इति । एताँ ह स प्रतिष्ठां छिन्ते, यो महदुक्थं परस्मै शंसति । तस्मादुक्थशंसं भूयिष्ठं परिचक्षते । प्रतिष्ठां छिन्नो हि भवति । इत्यधिदेवतम् ॥ ५ ॥ अथाधियज्ञम् । यदेतन्मण्डलं तपति, अयं स रूक्मः । अथ यदतदर्चिर्दीप्यते, इदं तत् पुष्करपर्णमापो ह्येताः आपः पुष्करपर्णम् । अथ य एष एतस्मिन् मण्डले पुरुषः, अयमेव स योऽयँ हिरण्मयः पुरुषः । तदेतदेवैतत्तूयँ सँस्कृत्येहोपधत्ते । तद्यज्ञस्यैवानु सँस्थामृर्ध्द्वमुत्क्रामति । तदेतदप्येति, य एष तपति । तस्मादग्निं नाद्रियेत परिहन्तुम् । अमुत्र ह्येष, तदा भवतीत्यु एवाधियज्ञम् ॥ ६॥ अथाध्यात्मम् । यदेतन्मण्डलं तपति यश्चैष रुक्मः, इदं तच्छुक्लमक्षन्। अथ यदेत्तदर्चिर्दीप्यते यच्चैतत् पुष्करपर्णम् , इदं तत् कृष्णमक्षन् । अथ य एष एतस्मिन् मण्डले पुरुषो यश्चैष हिरण्मयः पुरुषः, अयमेव स योऽयं दक्षिणेऽक्षन् पुरुषः ॥७॥ स एष एव लोकम्पृणा | तामेष सर्वोऽग्निरभिसम्पद्यते । तस्यैतन्मिथुनं योऽयँ सव्येऽक्षन् पुरुषः । अर्द्धमु हैतदात्मनो यन्मिथुनम् । यदा वै सह मिथुनेनाथ सर्वोऽथ कुत्स्नः कृत्स्नतायै । तद्यत् ते द्वे भवतो द्वन्द्वं विधाय, मण्डलपुरुषस्याधिदैवतं स्थितस्य अधियज्ञगतहिरण्मयपुरुषैक्यम् , अध्यात्मं दक्षिणाक्षि-

  • 1