पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्तम् हि मिथुनं प्रजनम्। तसात् द्वे-द्वे लोकम्पृणे उपधीयेते। तस्मादु द्वाभ्यां द्वाभ्यां चिति प्रणयन्ति ।। ८॥ स एष एवेन्द्रः, योऽयं दक्षिणेऽक्षन् पुरुषः। अथेयमिन्द्राणी। ताभ्यां देवा एतां विधृतिमकुर्वन् नासिकाम् । तस्माज्जायाया अन्ते नाश्नीयात् , वीर्यवान् हास्माज्जायते। वीर्यवन्तमु ह सा जनयति, यस्या अन्ते नाश्नाति ॥९॥ तदेतदेवतँ राजन्यबन्धवो मनुष्याणामनुतमां गोपायन्ति । तस्मादु तेषु वीर्यवान् जायतेमृताका वयसाँ साक्षिप्रश्येनं जनयति ॥ १० ॥ तौ हृदयस्याकाशं प्रत्यवेत्य मिथुनीभवतः । तौ यदा मिथुनस्यान्तं गच्छतोऽथ हैतत्पुरुषः स्वपिति । तद्यथा हैवेदं मानुषस्य मिथुनस्यान्तं गत्वा- संविद इव भवति, एवँ हेवैतदसंविद इव भवति । दैवँ ह्येतन्मिथुनम् । परमो ह्येष आनन्दः ।।११ तस्मादेवंवित् स्वप्यात् । लोकाँ हैते एव तद्देवते मिथुनेन प्रियेण धाम्ना समर्द्धयति। तस्मादु ह स्वपन्तं धुरेव न बोधयेत् , नेदेते देवते मिथुनीभवन्त्यौ हिनसानीति। तस्मादु हैतत्सुषुषुषः श्लेष्मणामित्र मुखं भवति। एते एव तद्देवते रेतः सिञ्चतः । तस्माद्रेतस इदँ सर्वं सम्भवति, यदिदं किञ्च ।। १२॥ स एष एव मृत्युः, य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः। तस्य हैतस्य हृदये पादावतिहतौ। तौ हैतदाच्छिद्योत्क्रामति । स यदोत्क्रामत्यथ हैतत्पुरुषो म्रियते । तस्मादु हैतत् प्रेतमाहुराच्छेद्यस्येति ॥२३।। एष उ एक प्राणः । एष हीमाः सर्वाः प्रजाः प्रणयति । तस्यैते प्राणाः स्वाः । स यदा स्वपित्यथैनमेते प्राणाः स्वा अपियन्ति । तस्मात् गतपुरुषे तदुभयपुरुषैक्यञ्च प्रदर्श्य, अध्यात्मपुरुषे लोकम्पृणात्वं दक्षिणाक्षिपुरुष इन्द्रत्वं सव्याक्षिपुरुषे इन्द्राणीत्वञ्च भावयित्वा, मण्डलदक्षिणाक्षिस्थपुरुषयोर्मृत्युत्वं प्राणत्वच्चारोप्य तत इदमुच्यते -