पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७५ 33 मध्वाभात् तोयबिन्दोर्मधुरिति कठिनात् कैटभो राजसोऽयं पूर्वोऽभूत् तामसस्तो श्रितरम ! भवतैवानिरुद्धेन सृष्टौ । अन्धीभूतो विधिस्त्वां स्वगुरुमखिलसंराध्यमाराध्य जप्यैः ।।

__ वेदं चक्षुर्ययाचे त्वमपि हयशिरो बिभ्रदत्यन्तशुभ्रम् । आकण्ठं प्राच्यदिव्योज्ज्वलबृहदनुरूपाइगसंस्थानभोग्यं तारोद्गीथस्वरञ्च व्यसृज उदधितः श्रीश ! यातो रसायाम् ॥ १७६

विष्टोदक्पूर्वसिन्धुद्रुतदनुजरहोगुप्तवेदापहारी हेषारम्भस्थलाभिद्रुतमुभयमदृष्ट्वेदमारान्निवृत्तः । दत्वा धात्ने च शेषे शयित उपगतौ रोषणौ तौ जघन्य ___ श्रीशोदक्पश्चिमाब्धौ नियतहयशिराः हव्यकव्यादि भुङ्क्षे ॥ १७७

साकं स्रष्ट्राऽथ देवा मुनय इह बलं लोकतन्त्रेऽधिगन्तुं क्षीरोदं प्राप्य चेरुर्महितरम ! तपस्त्वद्वचः शुश्रुवुश्च । नित्यं मे यज्ञभागान् वितरथ यदि, वः श्रेय इत्येवमेतैः स्वं स्वं भागं ददद्भिर्वचनमनुसृतं वैष्णवं यज्ञमिष्ट्वा ॥ १७८

'यज्ञैराराध्यता वो भवतु भवसमृद्धयर्थिनां, लब्धभागैः भाव्यश्चाहं भवद्भिः, फलमभिमतमप्यस्तु देयं चरद्भयः । यस्तु स्यान्मुक्तिकामैः सनकमुखमतस्थायिभिश्चर्यमाणः श्रेयान् धर्मो निवृत्तिः मम स ' इति रमावास ! भागं व्यधास्त्वम् ।। १७९

श्रुत्वा धर्म निवृत्ते विहितवरबले शर्वमुख्ये सुरौघे स्रष्टा सूनुः स यज्ञाग्रहर ! तव वपुर्दृष्टुमिच्छन्नतिष्ठत् । तादृक्छ्रुत्यर्थतत्त्वप्रवचनमखिलाम्नायसद्म त्वदीयं मध्वादेर्हन्तृ लक्ष्मीरमण ! हयशिरोऽदर्शयस्त्वं वपुस्तत् ॥ १८०

आत्मज्ञानस्य रोधादभिमतविहतौ देशिकः प्रादुरास्से पाराशर्यः प्रभाव तव निखिलमिमं पञ्चमे प्राह वेदे ।