पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् , स्वाप्ययः। स्वाप्ययो ह वै । तँ स्वप्न इत्याचक्षते परोक्षम् । परोक्षकामा हि देवाः ॥ १४ ॥ स एतैः सुप्तः न कस्य चन वेद । न मनसा सङ्कल्पयति । न वाचाऽन्नस्य रसं विजानाति। न प्राणेन गन्धं विजानाति । न चक्षुषा पश्यति न श्रोत्रेण शृणोति । एत ह्येते तदापीता भवन्ति । स एष एकः सन् प्रजासु बहुधा व्याविष्टः । तस्मादेका सती लोकम्पृणा सर्वमग्निमनु विभवति । अथ यदेक एक, तस्मादेका ॥ १५ ॥ तदाहुः-एको मृत्युर्बहव इति। एकश्व बहबश्चेति ह ब्रूयात् । यदु हासावमुत्र, तेनैकः। अथ यदिह प्रजासु बहुधा व्याविष्टः, तेनो बहवः ॥१६॥ तदाहुः-अन्तिके मृत्युर्दूरा इति । अन्तिके च दूरे चेति ह ब्रूयात् । यदहायमिहाध्यात्मम् , तेनान्तिके । अथ यदसावमुत्र, तेनो दूरे ॥ १७ ॥ तदेष श्लोको भवति । अन्ने भात्यपश्रितो रसानाँ संक्षरेऽमृत इति। यदतन्मण्डलं तपति, तदन्नम् । अथ य एष एतस्मिन् मण्डले पुरुषः, सोत्ता । स एतस्मिन्नन्नेऽपश्रितो भातीत्यधिदेवतम् ॥ १८ ॥ अथाध्यात्मम् । इदमेव शरीरमन्नम्। अथ योऽयं दक्षिणेऽक्षन् पुरुषः, सोऽत्ता । स एतस्मिन्नन्ने अपश्रितो भाति ॥ १९ ॥ तमेवमग्निरित्यद्धर्थव उपासते, यजुरिति : एष हीदँ सर्वं युनक्ति । सामेति छन्दोगाः। एतस्मिन् हीदं सर्वं समानम् । उक्थमिति बह्वृचाः। एष हीदँ सर्वमुत्थापयति । यातुरिति यातुविदः। एतेन हीदँ सर्वं यतम् । विषमिति सर्पाः। सर्प इति सर्पविदः । ऊर्गिति देवाः । रयिरिति मनुष्याः । मायेत्यसुराः । स्वधेति पितरः। देवजन इति देवजनविदः। रूपमिति गन्धर्वाः । गन्ध इत्यप्सरसः । आदित्यमण्डलमिदं शरीरश्चान्नम् । आदित्यपुरुषो दक्षिणाक्षिपुरुषश्चात्ता । स परमात्मा । "