पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

-- २७० श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्तम् तं यथा यथोपासते, तदेव भवति । तद्धैनान् भृत्वाऽवति । तस्मादेतमेवंवित सर्वैरेवैतैरुपासीत। सर्वं हैतद्भवति । सर्वं हैनमेतद्भूत्वाऽवति ।। २० स एष त्रीष्टकोऽग्निः । ऋगेका, यजुरेका, सामैका। तद्यां काञ्चात्रार्पदधाति, रुक्म एव तस्या आयतनम् । अथ यां यजुषा, पुरुष एव तस्या आयतनम् । अथ याँ साम्ना, पुष्करपर्णमेव तस्या आयतनम् । एवं त्रीष्टकः ॥२१॥ ते वा एते उभे एष च रुक्म एतच्च पुष्करपर्णमेतं पुरुषमपीतः । उभे हि ऋक्मामे यजुरपीतः । एवं वेकेष्टकः ।। २२ ।। स एष एवं मृत्युः, य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः । स एष एवंविद आत्मा भवति । स यदैवं- विदस्मॉल्लोकात् प्रेति, अथैतमेवात्मानमभिसम्भवति । सोऽमृतो भवति । मृत्युर्ह्यस्यात्मा भवति ॥ २३॥ पञ्चमाध्याये द्वितीयं ब्राह्मणम् ॥ - 11 तं यथापथोपासते, तदेव भवति । उपासकेन पुरुषेण यादृशवस्त्वाकारावच्छिन्नतया स्वयमुपासितो भवति, तादृशवस्त्वाकारावच्छिन्न एव भवन् स यथायथं तमुपासकमिह परत्र च रक्षति । तत्क्रतुनय विचारः अस्मच्छान्दोग्यपरिशिष्टे द्रष्टव्यः । शेषं परस्तात् । अयं पुरुषः त्रीष्टकाग्निर्भाव्यः । ऋग्यजुस्सामोपधेयेष्टकत्वात् अग्नेस्स्त्रीष्टकता । एकेष्टकश्च भाव्यः । ऋक्साः मयोर्जुध्यप्ययात् यजुर्मात्रपरिशेषादेकेष्टकत्वम् । एवम्भूतोऽयं मण्डले दक्षिणे अक्षिण च स्थितः मृत्युत्वेन भाव्यः । [सर्वसंहर्तृत्वरूपसामान्यधर्ममादाय मृत्युत्वभावनेति "न सामान्यात् - इति सूत्रभाष्ये स्थितम् । उत्कृष्टे निकृष्टदृष्टेरयोगात् मृत्युसादृश्यं गायत्रीसादृश्यवत विवक्षितमित्यप्याशयः स्यात् । ] एवं भावितोऽयमात्मा स्वान्तरात्मत्वरूपेण यथावस्थिताकारेणोपास्यते चेत् , उपासकः प्रेत्यामृतो भवति । तस्य वस्तुत एतदन्तरात्मत्वादिति । इति वात्स्यसच्चक्रवर्तिवीरराघवाचार्यकृतिषु उपनिषद्भाष्यपरिष्कारे अग्निरहस्यभागगत- पूर्ब्राह्मणपरिष्कारः।