पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् २७१

१०-५-३.* नेव वा इदमग्रेऽसदासीन्नेव सदासीत् । आसीदिव वा इदमग्रे नेवासीत् । तद्ध तन्मन एवास ॥१॥ भाष्यकोशेषु शुद्धश्रुतिपाठानुपलम्भात् मुद्रितशतपथब्राह्मणकोशमनुसृत्य मूल मुद्यते । श्रीमते रामानुजाय नमः [ येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ॥ श्रीरङ्गरामानुजमुनिवरविरचिता अग्निरहस्यप्रकाशिका अतसीगुच्छसच्छायमञ्चितोरःस्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि । क्रियतेऽग्निरहस्यस्य विवृतिर्विदुषां मुदे ॥ नैव वा इदमग्रे सदासीत् नैवासदासीत् = इदं जगद् सर्गाद्यसमये सर्वात्मना अभिव्यक्तनामरूपमपि नासीत् । सर्वात्मना स्वस्वरूपेणाप्यसन्नासीत् । विमृष्टा- नुन्मीलतचित्रवदासीदित्यर्थः ॥ आसीदिव वा इदमग्रे नेवासीत् । स्वरूपेण सत्त्वात् सदिव, नामरूपव्यक्त्यभावात् असदिवेत्यर्थः । तद्ध तन्मन आस । तत् तदा तन्मनः प्रादुर्बभूव । तस्मिन् काले प्रथमतो मनः सृष्टमित्यर्थः ॥ १ ॥ ( मनश्चिदाद्यग्निब्राह्मणभाष्यपरिष्कारः) यथा ईशावास्यानुवाकः संहितान्तर्गतोऽपि शारीरकोपयुक्तः सर्वैराद्रियते, ब्राह्मणान्तर्गतोऽप्यग्निरहस्यभागोऽयमादरणीयः, शारीरके तृतीयतृतीये मनश्चिदाद्यग्निसाध्यस्य मनोमयस्य क्रतोरत्र विहितस्य भीमांसनात् , उपनिषदन्तरदर्शितवैश्वानरादिविद्याविधानदर्शनाच्चेति विभाव्य सूत्रमाष्याद्यर्थावबोधसौकर्यसंषिपादयिषया उपनिषदन्तराणामिव अग्निरहस्य भागस्याप्यर्थं प्रकाशयितुमाचार्यो भाष्यं भाषिष्यमाणः सर्वस्वग्रन्थानुगतं मङ्गलश्लोकमिहापि निबध्नाति अतसीति । तद्ध तन्मन एवासेति । मनश्चिदादयोऽग्रयो मनोमया इह वक्ष्यन्ते विद्यामयक्रतूपयोगितया । तत्र मनस एवोपयोगात् सृष्ट्यारम्भे मन एवेह कथितम् । न तावता तत्पूर्वसृष्ट- महदहङ्कारतत्कारणानां व्यावृत्तिः । अपेक्षितमात्रेणोपक्रमः श्रुतिशैली । तथा