पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

-- २७२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् तस्मादेतदृषिणाम्यनूक्तम् । नासदासीन्नो सदासीत्तदानीमिति । नेव हि सन्मनो नेवासत् ।। २ ।। तदिदं मनः सृष्टमाविरबुभूषत् निरुक्ततरं मूर्ततरम् । तदात्मानमन्वैच्छत् । तत् तपोऽतप्यत । तत् प्रामूर्च्छत् । तत् षट्त्रिँशत सहस्राण्यपश्यदात्मनोऽग्नीनर्कान् मनोमयान मनश्चितः। तस्मादेतदृषिणाभ्यनूक्तम् । यत एव सर्गाद्यसमयस्य तादृग्रूपत्वम् , अत एव सर्गाद्यसमयस्वरूपं वेदेनाप्यनूक्तम् , नासदासीदिति । उक्तोऽर्थः। नेव हि सन्मनो नेवासत् । तस्मिन् समये उत्पन्नमपि मनः किञ्चिदभिव्यक्तनामरूपत्वादसदपि न भवति । अत्यन्ताभिव्यक्तनामरूपत्वाभावात् सदपि न भवतीत्यर्थः ॥ २ ॥ तदिदं --- मूर्ततरम् । एवं मनः सृष्टं ईषदभिव्यक्तनामरूपतया निरुक्तमपि मूर्तमपि निरुक्ततरतया आविर्भवितुमैच्छत् । अत्यन्तनामरूपव्यापाराभिव्यक्ति मैच्छदित्यर्थः । तदात्मानं तपोऽतप्यत । [तत् मनश्शरीरकपरमात्मा ?] आत्मानं चिन्तयन् संकल्परूपं तपः कृतवानित्यर्थः । [ मनःपरामर्शि तत्पदं ?! 'मृदब्रवी' दित्यादिवत् तदभिमानिदेवतापरं द्रष्टव्यम् । तत् प्रामूर्छत् । तत् मनः समुछ्रितं विस्मृ (स्तृ?) तमभवदित्यर्थः । ' मूर्च्छा मोहसमुच्छाययोः इति हि धातुः । तत् षट्-मनश्चितः। तन्मन एव-षट्त्रिंशत्सहस्रदिनात्मकपुरुषायुषान्तर्गतेकैकदिनप्रभवमानसवृत्तिसंघाताः अग्नित्वदृष्टया उपास्यमाना मनश्चितः [तान् ! ] आत्मनस्संबन्धिनः अर्कान् अर्चनीयान् मनोमयान् मनोनिष्पाद्यानपश्य- मूर्ततरमिति इष्टकचिताग्निरूपमूर्ततुल्यमनोमयमनश्चिदाद्यनेकाग्निसंपादत्वादस्य मूर्ततरत्वम् । मानसवृत्तिसंघाता इति । ननु मनश्चित्पदस्वारस्यानुरोधेन मनस एवामित्वम् । तस्यैव तत्तद्दिनावच्छिन्नत्वेन भेदकल्पनया अनेकत्वोपपत्तेरिति चेत् - उपरि, 'सर्वाणि भूतानि चिन्वन्त्यपि स्वपते ' इति प्राणिप्रयत्नसाध्यत्वस्य स्पष्टमवगमात् मनसस्तदभावात् मनोव्यापारग्रहणम् । एवञ्च भेदकल्पनक्लेशोऽपि नेति ।