पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्मिरहस्यम् . दित्यर्थः । 'कर्मण्यग्न्याख्यायाम् । इति मनश्चीयत इत्यर्थे किप् । श्येनचिदादि- शब्दत् असो किवन्तो निष्पन्नः । मनश्चितो नामाग्नय इति यावत् । 1 क्विबन्तो निष्पन्न इति । अतः इष्टकचितशब्दवत् अयमकारान्त इति न मन्तव्यम् । उपरि मनश्चिंत्सु इति प्रयोगोऽन्यस्ति । एवं वाक्चित इत्यादिरपि क्विबन्त एव । सर्वोऽर्थ तकारान्तबहुवचनान्तः । न तु इष्टकचितशब्दवत् अकारान्तैकवचनान्त:। इष्टकचित इत्यस्य इष्टकाभिश्चित इति विग्रहः। 'इष्टकेषीकामालानां चिततूलभारिषु' इत्यनुशासनात् चितशब्दे परे इष्टकाशब्दे ह्रस्वः । चितशब्दः तत्र क्तान्तः । मनश्चित्पदं तु श्येनचित्सदवत् , 'कर्मण्यग्न्याख्यायाम् ' इति सूत्रनिष्पादितम् । तत्र कर्मणीत्यनुवर्तते । कर्मणि उपपदे कर्मकारकरूपार्थे चिनोतेः किम् स्यात् अग्निवाचित्वे इति तदर्थः । अग्निरत्र आहवनीयाग्न्याधारस्थण्डिलविशेषः । एवञ्चात्र चित् इत्यस्य चितशब्दस्येव चयनकर्मार्थकत्वेऽपि तदुपपदभूतमन श्येनादिशब्दाः इष्टकाशब्दवत् न चयनकरणवाचका ; किन्तु चीयमानवस्तुपराः । 'श्येनचितं चिन्वीते' त्यस्य हि श्येन इव यो भवति अग्निश्चीयमानः, तमग्निं चिन्वीतेत्यर्थः । आहवनीयावारभूतस्थलविशेषस्य श्येनपक्षिसमानाकारतया निर्माणात् श्येनपक्षिणः चीयमानस्थलस्य चाभेदारोपात् इयेनचित् इति तत् स्थलमुच्यते । तद्वत् मनश्चित् इत्यत्रापि मनसः, क्रतौ वस्तुतश्रीयमानस्याग्नेश्चाभेदारोपो द्रष्टव्यः । तत्र, 'षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीन् ' इति मनस्संबन्धिषु षटत्रिंशत्सहस्रेषु अग्नित्वकथनात् मनोव्यापारसंघाता: तावन्त एवाग्न्य इति मनश्चिदित्यत्र मनःपद तादृशसंघातपरं ग्राह्यम् । तेष्वेकैकसंघातेऽपि चित्याग्न्यभेदारोपः । व्यापारसंघातानामनेकतया अग्न्यनेकत्वकृतं चित इति बहुवचनम् । अत्रायं विशेषः--श्येनचिदित्यादौ श्येनस्य अग्निरूपस्थानस्य च मूर्तत्वात् अग्नी श्येनतादात्म्यकल्पना श्येनसदृशाकारसंपादनेन क्रियते । इह तु मनोव्यापाराणाममूर्ततया सदृशाकारसंपादनायोगात् अभेदारोपमात्रम् । तत्रापि क्रतावुपयुज्यमाने स्थलविशेषरूपाग्नौ क्रतुकाले मनोव्यापारतादात्म्यभावनेति न मन्तव्यम्। मनोमयेषु मनश्चित्सु मनोमय मक्रियत' इति अग्नेर्मनोमयत्ववेदनेन पूर्वोक्तमानसव्यापारसंघाते अग्निरूपस्थलविशेषत्वारोपणपूर्वकं तत्र अग्नौ कर्तव्यसर्वकार्य क्रियमाणत्वभावनाया ज्ञापना: । तथा च मनश्चित इत्यस्य अग्नित्वेन भावनीयान् मानसव्यापारसंघातानित्यर्थः पर्यवस्यति । मूले अग्नीनिति पदं स्पष्टार्थं प्रयुक्तम् । अग्न्याख्यायामेव क्विष्विधानात् चित्पदेनैव तत्सिद्धेः । 35