पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

. २७४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् ते मनसैवाधीयन्त। मनसाऽचीयन्त । मनसैषु ग्रहा अगृह्यन्त । मनसाऽस्तुवत् । मनसाऽशँसन् । यत् किं च यज्ञे कर्म क्रियते, यत् किं च यज्ञियं कर्म, मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमक्रियत । तद्यत् किञ्चेमानि भूतानि मनसा संकल्पयन्ति, तेषामेव सा कृतिः। तेषु ----। एषु मनश्चिदाद्यग्निषु उपयुक्ताग्न्या(न्या ? धानचयनग्रहणस्तोत्रशस्त्राण्यपि मनोनिष्पाद्यान्येवेत्यर्थः । ननु सर्वेषां मनोव्यापाराणामग्नित्वदृष्टया क्रोडीकृतत्वात् आधानचयनग्रहणस्तोत्रशस्त्रादिदृष्टिविषयो मनोव्यापारो नास्तोति शङ्कयम् - केषाञ्चिव्यापाराणामग्नित्वदृष्टया क्रोडीकारस्य केषाञ्चित् तदुपयोग्याधानचयनस्तोत्रादिव्यापारत्वेन क्रोडीकारस्य वा (च?) संभवात् नानुपपत्तिः । यत्- अक्रियत । यज्ञप्रयोगे यत् प्रधानं कर्म क्रियते, यच्च यज्ञोपयुक्तं तदङ्गभूतं कर्म ग्रहणस्तोत्रशस्त्रादिकम्, तत् सर्वं मनोमयेषु मनश्चित्सु मनसैव मनोमयमक्रियतेत्यर्थः । तद्यत् – कृतिः । तत् तस्मात् लोके सर्वैः भूतैः क्रियमाणा मनोव्यापाराः सर्वेऽपि एतन्निष्पाद्यानां विद्यामयानां मनश्चितां निष्पादकव्यापारा इत्यर्थः । मनोव्यापारत्वावच्छिन्नेषु सर्वेषु क्रियमाणाया अग्नित्वदृष्टेः सकलमनोव्यापाराश्रिततया सर्वेषां मनोव्यापाराणां स्वाध्यस्ताग्निनिष्पादकत्वादिति भावः । आधानेति । मूले मनसैवाधीयन्त इत्यत्र आधीयन्त इत्येव पदच्छेदात् आधानमेव वक्तुं शक्यम् , नान्यत् । तथैवोपरि, तान्येवादधतीति च वक्ष्यते । आधानचयनदीनां भावनामात्ररूपाणामत्र कथनात् वास्तवाधानचयनादिकं नास्तीति सिद्धयः क्रवन्तर्गते चित्याग्नौ न मनोव्यापारादिभावनः । अत एव वास्तवचयनाद्य भावात् नात्र वास्तवक्रतुरपीति लभ्यते । तर्हि भावितानामग्नि-आधान-चयन-ग्रहणादीनां कुत्रोपयोगः? कि पूर्वोक्तकतिपयमात्रं भावनीयम् , उतान्यदपीति जिज्ञासायामुच्यते यत् किञ्चेति । यज्ञाख्यं कर्मेति प्रयोक्तव्ये यज्ञे कर्मेति प्रयोगात् यज्ञपदं, 'न प्रथमयज्ञे प्रवृज्यात्' इत्यत्रेव प्रयोगपरमिति विशदितं भावप्रकाशिकायाम् । यद्वा यज्ञपदं यथाश्रुतमेवास्तु। घटकत्वं सप्तम्यर्थः । यज्ञो हि नाम प्रक्षेपाङ्गको देवतोद्देश्यको द्रव्यत्यागः । तथा च यज्ञस्वरूपान्तर्गतमुद्देशत्यागादिरूपं कर्मेति यज्ञे कर्मेत्यस्यार्थः । तेन प्रधानकर्मग्रहणम् । अङ्गं सर्वं यज्ञियं कर्मेत्यनेन गृह्यते । --