पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् २७५ तानेवादधति ; तांश्चिन्वन्ति । तेषु ग्रहान् गृहन्ति । तेषु स्तुवते; तेषु शँसन्ति । एतावती वै मनसो विभूतिरेतावती विसृष्टिरेतावन्मनः । षट्त्रिँशत सहस्राण्यग्नयोऽर्काः । तेषामेकैक एव तावान् यावानसौ पूर्वः ।। ३॥ तन्मनो वाचमसृजत । सेयं वाक् सृष्टाऽऽविरघुवन्निरुक्ततरा मूर्ततरा। साऽऽत्मानमन्वैच्छत । सा तपोऽतप्यत । सा प्रामूर्च्छत् । सा षट्त्रिँशतसहस्राण्यपश्यदात्मनोऽग्नीनर्कान् वाङ्मयान् वाक्चितः। ते वाचै- तानेव - शंसन्ति । सर्वाणि भूतानि विदुषा संपाद्येषु मनश्चित्स्वग्निषु उपयुक्तानि आधानचयनग्रहणस्तोत्रशस्त्राणि निष्पादयन्तीत्यर्थः । एतावती-मनः । मनस एतेऽग्नयः । सर्वै तदधीना: तत्कार्यभृताः एतादृशमाहात्म्यशालिन इत्यर्थः । षट - पूर्वः। षटिंत्रशत्सहस्रसंख्याकानामर्चनीयानामग्नीनामेषां मध्ये एकैकोऽप्यग्निः पूर्वोक्तेष्टकचिताग्निसदृश इत्यर्थः । इष्टकचितस्याग्नेः स्वाङ्गिभूत- क्रतुद्वारेण यत् फलम् , तदेव मनश्चिदादीनामपि विद्यामयक्रतुद्वारेण फलमित्यर्थः । एवमुत्तरत्रापि ॥ ३॥ वाक्चितः वागिन्द्रियव्यापाराः । वाक्चितो वागिन्द्रियव्यापारा इत्यादि । मनश्चिच्छब्दे उक्तया रीत्या वाक्चिदादिपदेष्वपि व्युत्पत्तिः प्रदर्शनीयेति, 'आत्मनोऽग्नीनर्कान् वाङ्मयान्' इति वाक्संबन्धिषु वाग्विकारेषु अग्नित्वकथनवलेन वाक्पदं वाग्व्यापारपरम् , चित्पदं चयनकर्मभूताग्निपरम् , उभयोर- भेदारोपः इत्येव सिद्धयति । अथापि अग्निपदसममिव्याहारादेव वाग्व्यापारेषु अग्न्यभेदलाभात् व्युत्पत्तिप्रदर्शनार्थं तावदुक्तावपि अन्ततः वाग्व्यापारमत्रं वाक्चित्पदेनेह विवक्षितुं युक्तमिति निष्कृष्यैवमुक्तम् । रीतिरिय मनश्चित्पदेऽप्यन्ततो भाव्या, 'अग्नीन् मनश्चितः' इत्यत्र । 'मनोमयेषु मनश्चित्सु ' इत्यत्र तु अग्निपदान्तराभावात् चित्पदमग्निसमर्पकम् । एवं वाक्चित्सु इत्यादावपि । अथवा वाक्पदेन वागिन्द्रयव्यापार। ग्राह्या इत्येतज्जिज्ञापयिषामात्रेण व्यापारा इत्युक्ति । तथाच वागादिपूर्वपदविवरणमात्रमेतत् । एवञ्च वाक्चित इत्यस्य द्वितीयान्ततया व्यापारा इति कथं प्रथमान्तेन विवरणमिति शङ्काऽपि शमिता भवनि : कृत्स्नविवरणपरत्वामावादस्येसि । वाचैवेत्यादि । वाग्व्यापारात्मकेष्वशिषु वाग्व्यापारात्मकानि कर्माणि वाचैवाक्रियन्तवाग्व्यापारोद्भवान्यासन् । वाग्व्यापारा एव यज्ञसंबन्धिसर्वरूपा भाव्या इति यावत् । एवमग्रेऽपि ।