पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

२७६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् वाधीयन्तवाचाऽचीयन्त वाचैषु ग्रहा अगृह्यन्त वाचास्तुयत वाचाऽशँसन्। यत्किं च यज्ञे कर्म क्रियते, यत्किं च यज्ञियं कर्म, वाचैव तेषु तद्वाङ्मयेषु वाक्चित्सु वाङ्मयमक्रियत । तद्यत् किं चेमानि भूतानि वाचा वदन्ति, तेषामेव सा कृतिः। तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान् गृह्णन्ति तेषु स्तुवते तेषु शँसन्ति। एतावती वै वाचो विभूतिरेतावती विसृष्टिरेतावती वाक् । षट्त्रिँशत्सहस्राण्यग्नयोऽर्कास्तेिषामेकैक एव तावान् यावानसौ पूर्वः॥४॥ सा वाक् प्राणमसृजत। सोऽयं प्राणः सृष्ट आविरबुभूपन्निरुक्ततरो मूर्ततरः । स आत्मानमन्वैच्छत्स तपोऽतप्यत स प्रामूर्च्छत्स षट्त्रिँशत सहस्राण्यपश्यदात्मनोऽग्रीनर्कान्प्राणमयान्प्राणचितः । ते प्राणेनैवाधीयन्त प्राणेनाचीयन्त प्राणेनैषु ग्रहा अगृह्यन्त प्राणेनास्तुवत प्राणेनाशँसन् । यत्किं च यज्ञ कर्म क्रियते यत्किं च यज्ञियं कर्म प्राणेनैव तेषु तत् प्राणमयेषु प्राणचित्सु प्राणमयमक्रियत। तद्यत्किं चेमानि भूतानि प्राणेन प्राणन्ति तेषामेव सा कृतिः । तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान् गृह्णन्ति तेषु स्तुवते तेषु शँसन्त्येतावती , प्राणस्य विभूतिरेतावती विसृष्टिरेतावान् प्राणः । षट्त्रिँशत् सप्राणश्चक्षुरसृजत तदिदं चक्षुः सृष्टमाविरभूपन्निरुक्ततरं मूर्ततरम्। तदात्मानमन्वैच्छत्तत्तपोऽतप्यत तत्प्रामूर्च्छत् तत्षट्त्रिँशत सहस्राण्य पश्यदात्मनोऽग्नीनर्काश्चिक्षुर्मयांश्चक्षुश्चितः । ते चक्षुपैवाधीयन्त चक्षुषाचीयन्त चक्षुषेषु ग्रहा अगृह्यन्त चक्षुपास्तुवत् चक्षुपाशँसन् यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म चक्षुषैव तेषु तच्चक्षुर्मयेषु चक्षुश्चित्सु चक्षुर्मयमक्रियत । तत्किं चेमानि भूतानि चक्षुषा पश्यन्ति तेषामेव सा कृतिः । तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान् गृह्णन्ति तेषु स्तुवते तेषु शँसन्त्येतावती वै चक्षुषो विभूतिरेतावती विसृष्टिरेतावच्चक्षुः । षट्त्रिँशत्-।। ६ ॥ तच्चक्षुः श्रोत्रमसृजत । तदिदश्रोत्र सृष्टमाविरबुभूषन्निरुक्ततरं मूर्ततरम् । तदात्मानमन्वैच्छत्तत्तपोऽतप्यत तत्प्रामूर्च्छन् । तत्षट्त्रिँशतँ सह-