पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् २७७ स्राण्यपश्यदात्मनोऽग्नीनर्काच्छ्रोत्रमयाञ्छ्रोत्रचितः । ते श्रोत्रेणैवाधीयन्त श्रोत्रेणाचीयन्त श्रोत्रणेषु ग्रहा अगृह्यन्त श्रोत्रणास्तुवत श्रोत्रेणाशँसन् । यत्किंच यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म श्रोत्रेणैव तेषु तच्छ्रोत्रमयेषु श्रोत्रचित्सु श्रोत्रमयमक्रियत। तद्यत्किं चेमानि भूतानि श्रोत्रेण शृण्वन्ति तेषामेव सा कृतिः। तानेवादधति तांश्चिन्यन्ति तेषु ग्रहान् गृह्णन्ति तेषु स्तुवते तेषु शँसन्त्येतायती वै श्रोत्रस्य विभूतिरेतावती विसृष्टिरेतावछ्रोत्रम् । षट्त्रिँशत - तच्छ्रोत्रं कर्मासृजत। तत्प्राणानभिसममूर्च्छदिम संदेघ (?)मन्नसंदेह- मकृत्स्नं वै कमत प्राणेभ्यः। अकृत्स्ना उ वै प्राणा ऋते कर्मणः ॥ ८॥ तदिदं कर्म सृष्टमाविरबुभूषत् । निरुक्ततरं मूर्ततरम् तदात्मान- मन्वैछत्तत्तपोऽतप्यततत्प्रामूर्च्छत् । तत्षट्त्रिँशतसहस्राण्यपश्यदात्मनोऽग्नीनर्कान्कर्ममयान्कर्मचितः । ते कर्मणैवाधीयन्त कर्मणाचीयन्त कर्मणैषु ग्रहा अगृह्यन्त कर्मणास्तुवत कर्मणाशँसन् । यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म कर्मणाव तेषु तत्कर्ममयेषु कर्मचित्सु कर्ममयमक्रियत । तद्यत्किं येमानि भूतानि कर्म कुर्वते तेषामेव सा कृतिः। तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शँसन्त्येतावती वै कर्मणो विभूति- रेतावती विसृष्टिरतावत्कर्म । षट्त्रिँशत् - तत् कर्माग्निमसृजत । आविस्तरां वा अग्निः कर्मणः । कर्मणा ह्येनं जनयन्ति कर्मणेन्धते ।। १०॥ सोऽयमग्निः सृष्ट आविस्खुभूषत् निरुक्ततरो मूर्ततरः । स आत्मानमन्वैच्छत्स तपोऽतप्यत स प्रामूर्छत् स षट्त्रिशत सहस्राण्यपश्यदात्मनो- utan 'n कर्मचितः वागिन्द्रियातिरिक्तकर्मेन्द्रियव्यापाराः । अग्निचितः जठराग्निव्यापाराः ।