पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रोरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् ग्नीनर्कानग्निमयानग्निचितस्तेऽग्निनैवाधीयन्ताग्निनाचीयन्ताग्निनैषु ग्रहा [गृह्यन्ताग्निनास्तुवताग्निनाशँसन् यत्किं च यज्ञे कर्म क्रियते यत्किं । यज्ञियं कर्माग्निनैव तेषु तदग्निमयेष्वग्निचित्स्वग्निमयमक्रियत । द्यत्किं चेमानि भूतान्यग्निमिन्धते तेषामेव सा कृतिः। तानेेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृहन्ति तेषु स्तुवते तेषु शँसन्त्येतावती वा अग्नेर्विभृति- तावती विसृष्टिरेतावानग्निः । षट्त्रिँशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक व तावान् यावानसौ पूर्वः ॥ ११ ॥ ते हैते विद्याचित एव । तान् हैतानेवंविदे सर्वदा सर्वाणि भूतानि वन्यन्त्यपि स्वयते । ते हैते विद्याचित एव । एते मनश्चिदादयः सर्वेऽपि विद्याचितः विद्यार्थाः चित इत्यर्थः । न तु मनश्चदादीनामेव विद्यारूपचित्त्वं बोध्यते । द्वित्वेन विद्याचित एवेत्यवधारणवैयर्थ्यप्रसङ्गात् । अतो विद्याचित एवेत्यस्य, विद्यामयमानसग्रहादेः क्रियामयद्वादशाहादिक्रत्वर्थत्ववत् विद्यामयस्य मनश्चिदादेः सक्तस्य क्रियामयक्रत्वर्थत्वस्य प्रतिषेधार्थत्वमेव ।। तान् ह---स्वपते । एवंविदे विद्यामयक्रतुमते जाग्रते स्वपते च सर्वाणि भूतानि सर्वदा अग्निं चिन्वन्तीत्यर्थः । सार्वकालिकसर्वभूतकर्तृकमनोव्यापाराः अग्नित्वदृष्टिविशिष्टा विद्यावत्पुरुषशेषभूताः चयनरूपा एवासन्नित्यर्थः । अत्र सर्वभूतकर्तृकसर्वकालव्यापिमनोव्यापाररूपाग्नेः परिमितकालकर्तृकक्रियामयकत्वनुप्रवेशासामर्थ्यात् विद्यामयक्रतावनुप्रवेशसामर्थ्याच्च मनश्चिद्रूपोऽग्निः न मानसग्रहवत् यामयक्रत्वनुप्रवेशी; अपि तु विद्यामयक्रत्वनुप्रवेशीति द्रष्टव्यम् । ते हैते --

तस्य सिद्धत्वेनेति । "वाङ्मनश्चक्षुरादिव्यापाराणामिष्टकादिवत् चयनानुपपत्तेर्मनसा दितामित्वेन विद्यारूपत्वे सिद्धेपि” इति श्रीभाष्योक्तरीत्या सिद्धत्वेनेत्यर्थः । स्वपते इत्येतत् एवंविदे इत्यस्य विशेषणम् ।