पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् २७९ विद्यया हैवैत एवंविदश्चिता भवन्ति ॥ १२ ॥ अयं वाव लोक एषोऽग्निश्चितः । विद्याचित एवेत्येतद्वाक्ये विवृणोति विद्यया हैव--- भवन्ति । एवंविदः पुरुषस्य "विद्यया विद्यामयेन क्रतुना संबद्धाः मनश्चिदादयः चिता भवन्तीत्यर्थः" इति भगवता भाष्यकृतोक्तम् । अत्र विद्ययेति विद्या प्रयोजनतया हे तुः । विद्यार्थ चिता इत्यर्थः" इति व्यासार्यैर्व्याख्यिातञ्च । अत्र विद्यया हैवेत इति वाक्यस्य ते हैते विद्याचित एवेति वाक्यविवरणरूपत्वस्य भाष्य एवाविष्कृतत्वात् विद्याचित एवेत्यस्यापि विद्यार्थ चित इति पूर्वोक्त एवार्थ इत्यर्थः ।। इति मनश्चिदाद्यग्निविद्यामयक्रतुब्राह्मणप्रकाशिका । अग्निलोकपृणाविषयाण्युपासनान्तराज्युच्यन्ते अयं वाव--चितः । एष चितोऽग्निरयं लोकः भूलोक इत्यर्थः । अग्नौ भूलोकदृष्टिः कर्तव्येति यावत् । विद्यार्थं चित इति पूर्वोक्त एवार्थ इति । ननु कर्मण्यग्न्यान्यायामिति सूत्रत एष श्येनचिदादिवत् विद्याचित्पदमपि निष्पाद्यमिति विद्यार्थं चित इति कथम्? सत्यम् । अथाप्यत्र विद्यापदं न मनोव्यापारवाग्व्यापारादिगताग्नित्वभावनापरम् । अग्नित्वभावनायां चित्पदार्थाग्न्यभेदानन्वयात् । मनश्चितः वाक्चितः इत्यादिपदैः व्यापारेश्वग्न्यभेदारोपस्यैव प्रागुक्तत्वात् चित्पदार्थाग्न्यभेदारोपस्य मनोव्यापारादिगताग्नित्वभावनायो पुनरकर्तव्यत्वाच्च । अत: विद्यापदं भावनाविषयव्यापारलाक्षणिकं वाच्यम् । अग्नित्यभावनारूपविद्याविषयभूताः व्यापाराः चित्पदार्थभूताग्रय इत्युक्तं भवति । अत्राप्याम्रेडनमस्ति अर्थस्य | अतो विद्यापदं विद्याङ्ग भूतमनोव्यापारादिपरम् । तत्र चित्पदार्थाभेदः विद्याचित्पदेनोच्यते । तथाच त एते अग्नित्वेनाभिमन्यमान - विद्यार्थव्यापारा एवेति प्रकृतपूर्ववाक्यार्थः । तत्र विद्यार्थत्वांशस्य एवकारेणावधारणम् । एवं श्रुतौ विद्यापदस्य विद्यार्थव्यापारपरत्वादेव तथैवार्थविवक्षया सूत्रकारेणापि विद्यैव तु इति विद्यापदप्रयोगः, तत्प्रतिनिर्देशरूपत्वात् पूर्वपक्षे क्रियार्थव्यापाररूपार्थे क्रियापदपयोगश्चेत्यवधेयम् । "विद्ययेतिप्रयोजनतया हेतुः" इति व्यासार्यव्याख्यानमपि पर्यवसानमनुरुध्य ; न तु विद्यार्थ चित इति विग्रहाभिप्रायेण । अनुशासनस्यानुरोद्धव्यत्वा ।। श्रीभाष्येपि विद्यार्थमिति अभाषित्वा, "विद्यया विद्यामयेन क्रतुना संबद्धाः .. चिता भवन्ती" त्यर्थभाषणं विद्याचित इत्या विद्यापदं विद्यासंबद्धार्थे लाक्षणिकमिति स्पष्टं दर्शयति । संबन्धश्चास्मदुपपादितरीत्या विद्यार्थत्वरूप एव ।'विद्यया हैवैते एवं विदश्रिता भवन्ती तिवाक्ये विद्ययेति इत्थम्भूतलक्षणे तृतीया । विद्यासंबद्वा एते चिता भवन्तीति भाष्यानुसारेणार्थः । अतः टीकोक्तं प्रयोजनत्वमार्थिकम् ।