पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् , - - तस्याप एवं परिश्रितो मनुप्या यजुष्मत्य इष्टकाः [पशवः ? ] सूददोहा ओषधयश्च वनस्पतयश्च पुरीषमाहुतयः समिधोऽग्निर्लोकम्पृणा। तद्वा एतत् सर्वमग्निमेवाभिसम्पद्यते । तत् सर्वोऽग्निर्लोकम्पृणाभिसम्पद्यते। तस्याप एव परिश्रितः । अश्मन्नूर्जमिति परिषिञ्चती' ति विहिताग्निपरिपेचनजलेषु परिश्रिच्छब्दितेषु समुद्रजलदृष्टिः कार्येत्यर्थः । मनुष्या यजुष्मत्य इष्टकाः । यजुर्मन्त्रोपधेयेष्टकासु मनुष्यत्वबुद्धिः कर्तव्येत्यर्थः । पशवः सूददोहाः । सूददोहाः 'सूदपेदकः दोहाः ता अस्य सूददोहसः । इत्युपधेया इष्टकाः । अग्न्यथेषु सूददोहेषु पशुत्वबुद्धिः कार्ये इत्यर्थः । ओषधयश्च वनस्पतयश्च पुरीषम् । इष्टका सन्ध्याच्छादनार्थगोमयेषु ओषधिवनस्पतित्वबुद्धिः कार्येत्यर्थः । आहुतयः समिधः । स्थण्डिलाग्नौ क्रियमाणासु आहुतिषु इन्धनत्यबुद्धिः कर्तव्या। अग्निर्लोकम्पृणा । भूततृतीयरूपोऽग्निः लोकंपृणच्छिद्रंपृणेति मन्त्रोषधेया इष्टकेत्यर्थः । पृण प्रीणने ' इत्येतस्मात् तौदादिकात् लोक पृणतीत्येतस्मिन्नर्थे मूलविभुजादित्वात् कप्रत्यये, - लोकस्य पृणे मुं वक्तव्यम् । इति मुमागमे स्त्रीत्वात् टापि लोकम्पृणेति रूपसिद्धिः । तद्वा एतत् सर्वमग्निमेवाभिसंपद्यते । 'अयं वाव लोक ' इत्यादिनिर्दिष्टं भूलोकसमुद्र जलमनुष्यपश्चादिकं सर्वं भूततृतीयमग्नि मेवाभिसंपद्यते । अग्निलीने भवतीत्यर्थः। तत् सर्वोऽग्निलोकम्पृणामभिसंपद्यते। 'एषोऽग्निश्चित' इत्यादिनिर्दिष्टः सर्वावयवयुक्तोऽग्निः लोक पृणामेष्टकां प्राप्य समाप्तो भवती यर्थः । लोकम्पृणायाः पूरणार्थत्वेन तदन्तवादग्निसमाप्तेरित्यर्थः । ततश्च सर्वाभिसंपत्तिकर्मभूते भूनतृतीयाग्नौ सर्वावयवयुक्तस्थण्डिलाग्न्यभिसंपत्तिकर्म(धर्म)भूतलोकपृणादृष्टिरुपपद्यत इति भावः । 1. संविच्छेदन. पा. पृण प्रनीण' इति पाठः शुद्ध; न तु प्रीण प्रीणने इति । न चात्र दर्शिता प्रक्रिया पूर्वविकल्पाधिकरणान्तिमसूत्रश्रुतप्रकाशिकाविरुद्धेति वाच्यम् - तत्र दृश्यमनस्य टीकापाठस्य अशुद्धत्वात् । लोकम्पृणारूपसुप्रसिद्धेष्टकाविषयत्वात् मूलस्य । लोकम्पृणाया लोकपृणत्वम् , छिद्रम्मृणाशब्द इव चयनभूप्रदेश पूरकत्वरूपार्थे तस्य शब्दस्य व्युत्पत्तिप्रदर्शनेन कामं कार्यताम् । विवक्षितो वाक्यार्थः पुनरयमिति । - 1