पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् स यो हैतदेवं वेद लोकम्पृणामेनं भूतमेतत्सर्वमभिसम्पद्यते ॥ १ ॥ अन्तरिक्षँह त्वेवैषोऽग्निश्चितः । तस्य द्यावापृथिव्योरेव संधिः परिश्रितः परेण हान्तरिक्षं द्यावापृथिवी संधत्तः ताः परिश्रितो वयाँ सि यजुष्मत्य इष्टका वर्ष:ँ सूददोहा मरीचयः पुरीषमाहुतयः समिधो वायुर्लोकम्पृणा । तद्वा एतत्सर्वं वायुमेवाभिसम्पद्यते । तत्सर्वोऽग्निर्लो- ॥२॥ धौर्ह त्वेवैपोऽग्निश्चितः । तस्याप एवं परिश्रितो यथा हवा इदं कोशः समुच्छ्रित एवमिमे लोका अप्स्वन्तस्तद्या इमाँल्लोकान् परेणापस्ताः परिश्रितो देवा यजुष्मत्य इष्टका यदेवैतस्मिँल्लोकेऽन्नं तत्सूददोहा नक्षत्राणि पुरीषमाहुतयः समिध आदित्यो लोकम्पृणा । तद्वाऽएतत्सर्वमादित्यमेवाभिसम्पद्यते । तत्सर्वोग्निर्लो ---||३|| आदित्यो ह त्वेवैषोऽग्निश्चितः । तस्य दिश एव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं दिशः समन्तं परियन्ति रश्मयो यजुष्मत्य इष्टकास्ताः षष्टिश्चैत्र त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यस्य रश्मयस्तद्यपरिश्रित्सु यजुष्मतीः प्रत्यर्पयति रश्मींस्तदिक्षु प्रत्यर्पयत्यथ यदन्तरादिशश्च रश्मींश्च तत्सूददोहा अथ यद्दिक्षु च रश्मिषु चान्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यद्दिश इति च रश्मय इति चाख्यायते तल्लोकम्पृणा । तद्वा एतत्सर्वं दिश इति चैव रश्मय इति चाख्यायते । तत्सर्वोऽग्निर्लो. - ॥४॥ नक्षत्राणि ह त्वेषोऽग्निश्चितः । तानि वा एतानि सप्तविशति- नक्षत्राणि सप्तविँशतिः सप्तविंशतिहाँषनक्षत्राण्येकैकं नक्षत्रमनूपतिष्ठन्ते तानि सप्त च शतानि विँशतिश्चाधिषट्त्रिँशत्ततो यानि सप्त च शतानि स यो हैतदेवं - -सर्वमभिसंपद्यते । एवम् उक्तेन प्रकारेण एतत् एतमग्निम्-लिङ्गव्यत्ययश्छान्दसः-~-लोकम्पृणां यो वेद, एनं विद्वांसम् एतत् सर्वं भूतमभिसंपद्यते । शेषभूततया आश्रयतीत्यर्थः । एवमुत्तरेष्वपि । उत्तरत्रोपयोगमान्द्यात् नार्थो लिख्यते। 36