पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् विँशतिश्चेष्टका एवं ताः षष्टिश्च त्रीणि च शतानि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्योऽथ यान्यधिषटत्रिँशत्स त्रयोदशो मासः स आत्मा त्रिँशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव षट्त्रिँश्यौ तद्यत्ते द्वे भवतो द्यक्षर हि शिरोऽथ यदन्तरा नक्षत्रे तत्सूददोहा अथ यन्नक्षत्रेष्वन्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यन्नक्षत्राणीत्याख्यायते तल्लोकम्पृणा । तद्वा एतत्सर्व नक्षत्राणीत्येवाख्यायते । तत्सर्वोऽग्निर्लो- - ॥५॥ ता वा एता एकविंशतिर्बृहत्यः । एकविँशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविँशं च स्तोमं बृहतीं च छन्दः ॥ ६॥ छन्दाँसि ह त्वेवैषोऽग्निश्चितः । तानि वा एतानि सप्त छन्दाँसि चतुरुत्तराणि तृचानि तेषाँ सप्त च शतानि विशतिश्चाक्षराण्यधि पटत्रि शत्ततो यानि सप्त च शतानि विँशतिश्चेष्टका एव ताः षष्टिश्च त्रीणि च शतानि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्योऽथ यान्यधि षटत्रिँशत्स त्रयोदशो मासः स आत्मा त्रिँशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव षट्त्रिश्यौ तद्यत्ते द्वे भवतो व्द्यक्ष हि शिरः ॥ ७ ॥ तस्यै वा एतस्यै षट्त्रिँशदक्षरायै बृहत्त्यै यानि दश प्रथमान्य- क्षराणि सा दशाक्षरैकपदाथ यानि विँशतिः सा विँशत्यक्षरा द्विपदाथयानि त्रिँशत्सा त्रिँशदक्षरा विराडथ यानि त्रयस्त्रिँशत्सा त्रयस्त्रिँशदक्षराथ यानि चतुत्रिँशत्सा चतुर्त्रिँशदक्षरा स्वराडथ यत्सर्वेश्छन्दोभिरयमग्निश्चितस्तदतिच्छन्दास्ता उ सर्वा इष्टका एवेष्टकेति त्रीण्यक्षराणि त्रिपदा गायत्री तेनैष गायत्रोऽग्निर्मृदाप इति त्रीण्यक्षमणि त्रिपदा गायत्री तेनो एवैष गायत्रोऽथ यदन्तरा छन्दसी तत्सूददोहा अथ यच्छन्दस्स्वयं तत्पुरीषं ता आहुतयस्ताः समिधोऽध यच्छन्दासीत्याख्यायते तल्लोकम्पृणा । तद्वाएतत्सर्वं छन्दाँसीत्येवाख्यायते । तत्सर्वोऽग्निर्लो -- ॥ ८॥ ता वा एता एकविँशतिर्बृहत्यः । एकविँशो वै स्वर्गो लोको