पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविँशं च स्तोमं बृहतीं च छन्दः ॥ ९॥ संवत्सरो ह त्वेषोऽग्निश्चितः । तस्य रात्रय एवं परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्य रात्रयोऽहानि यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहान्यथ या अमूःषट्त्रिँशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्माऽर्धमासाश्च ते मासाश्च चतुर्विँशतिरर्धमासा द्वादश मासा अथ यदन्तराहोरात्रे तत्सूददोहा अथ यदहोरात्रेष्वन्नं तन्पुरीषं ता आहुतयस्ताः समिधोऽथ यदहोरात्राणीत्याख्यायते तल्लोकम्पृणा । तद्वा एतत्सर्वमहोरात्राणीत्येवाख्यायते । तत्सर्वोs- ग्निर्लो- ।॥ १० ॥ ता वा एता एकविँशतिर्बृहत्यः । एकविँशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यते एकविँशं च स्तोमं बृहतीं च छन्दः ।। ११ ॥ आमा ह त्वेषोऽग्निश्चितः । तस्यास्थीन्येव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्थास्थीनि मज्जानो यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्य मज्जानोऽथ या अमूः षट्त्रिँशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्मा प्राणः स तस्य त्रिँशदात्मन्विधाः प्रतिष्ठायां द्वे प्राणषु द्वे शीर्षन्द्वे तद्यत्ते द्वे भवतो द्विकपालँ हि शिरोऽथ येनेमानि पर्वाणि संततानि तत्सूददोहा अथैतत्त्रयं येनायमात्मा प्रच्छन्नो लोमत्वड्माँसमिति तत्पुरीषं यत्पिबति ता आहुतयो यदश्नाति ताः समिधोऽथ यदात्मेत्याख्यायते तल्लोकम्पृणा । तद्वा एतत्सर्वमात्मेत्येवाख्यायते । तत्सर्वोऽग्निर्लो- ॥ १२ ॥ ता वा एता एकविँशतिर्बृह - ॥ १३ ।।