पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् सर्वाणि ह त्वेव भूतानि सर्वे देवा एषोऽग्निश्चितः । आपो वै सर्वे देवाः सर्वाणि भूतानि ता हैता आप एवैषोऽग्निश्चितस्तस्य नाव्या एवं परिश्रितस्ताः षष्टिश्च तीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं नाव्याः समन्तं परियन्ति नाव्या उ एव यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं नाव्या अभिक्षरन्त्यथ यदन्तरा नाव्ये तत्सूददोहा अथ या अमूः षट्त्रिशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्मा अयमेव स योऽयँहिरण्मयः पुरुषः ॥ १४ ॥ तस्यैते प्रतिष्टे रुक्मश्च पुष्करपर्णं चापश्चादित्यमण्डलं च स्रुचौ बाहू ताविन्द्राग्नी द्वे स्वयमातृण्णे इयं चान्तरिक्षं च तिस्रो विश्वज्योतिष एता देवता अग्निर्वायुरादित्य एता ह्येव देवता विश्वं ज्योतिर्द्वादशर्तव्याः स संवत्सरः स आत्मा पञ्च नाकसदः पञ्च पञ्चचूडाः स यज्ञस्ते देवा अथ यद्विकर्णी च स्वयमातृष्णा चाश्मा पृश्निर्यश्चितेऽग्निर्निधीयते सा पञ्चत्रिँशी लोकम्पृणायै यजुः षटत्रिंशी सोऽस्यैव सर्वस्यान्नमेवात्मा स एष सर्वासामपां मध्ये स एष सर्वैः कामैः सम्पन्न आपो वै सर्ने कामाः । स एषोऽकामः सर्वकामो न ह्येतं कस्य चन कामः ॥ १५ ॥ तदेष श्लोको भवति विद्यया तदारोहन्ति यत्र कामाः परागताः। न तत्र दक्षिणा यन्ति नाविद्वाँसस्तपस्विनः ।। इति । विद्यया तदारोहन्तीति । अत्र चित्याग्निवित्प्रकरणे देवयानश्रवणं प्रासङ्गिकम् अहीननयात् पर विद्याप्रकरणान्वयि स्यात् इति कार्याधिकरणश्रुतप्रकशिकायामुक्तम् । अत्र अहीननयादित्वस्य, 'तिस्त्र एव साह्रस्योपसदः, द्वादशाहीनस्य' इति ज्योतिष्टोमप्रकरणे द्वादशोपसत्त्वश्रवणेऽपि अहीनपदमुख्यार्थानुरोधेन प्रकृतज्योतिष्टोमानन्वितस्य तस्य द्वादशोपसत्त्वस्य अहीने उत्कर्ष इति (३.३-८) पूर्वमीमांसोक्तन्यायादित्यर्थः । तथा च विद्यया देवयानप्राप्तिर्यादृशे अकामत्वे पुंसः संपन्ने सति संभाव्या, तादृशमकामत्वं चित्याग्नि विद्यया सर्वकामसंपन्नस्य भवति क्रमेणनीहार्थोऽ- भिमतः स्यात् ।