पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् २८५ न हैव तं लोकं दक्षिणाभिर्न तपसाऽनेवंविदश्नुते । एवंविदाँ हैव स लोकः ।। १६ ॥ अभ्रं पुरीषम् चन्द्रमा आहुतयो नक्षत्राणि समिधो यच्चन्द्रमा नक्षते वसत्याहुतिस्तत्समिधि वसत्येतदु वा आहुतेरन्नमेवा प्रतिष्ठा तस्मादाहुतिर्न क्षीयते एतद्व्यस्या अन्नमेषा प्रतिष्ठाऽथ यद्देवा इत्याख्यायते तल्लोकम्पृणा । तद्वा एतत्सर्वं देवा इत्येवाख्यायते ॥ १७ ॥ तदेतदृचाऽभ्युक्तम् -- विश्वे देवा अनु तत्तैे यजुरिति । सर्वाणि ह्यत्र भूतानि सर्वे देवा यजुरेव भवन्ति । तत्सर्वोऽग्निर्लोकम्पृणामभिसम्पद्यते । न यो हैतदेवं वेद लोकम्पृणामेनं भूतमेतत्सर्वमभिसम्पद्यते ॥ १८ ॥ ता वा एताः एकविँशतिर्बृहत्यः । एकविंशो वै स्वर्गों लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविँशं च स्तोमं बृहती च छन्दः ॥ १९ ॥ . " कुश्रिर्ह वाजश्रयसोऽग्निं चिक्ये । तँ होवाच सुश्रवाः कौष्यो गौतम ! यदग्रिमचैषीः, प्राञ्चमेनमचैषीः प्रत्यञ्चमेनमचैषीर्यन्यञ्चमेनमचैषीरुत्तान- मेनमचैषीः ॥१॥ यद्यु हैनं प्राञ्चमचैषीः, यथा पराच आसीनाय पृष्ठतोऽन्नाद्यमुपाहरेत् , तादृक् तत् न ते हविः प्रतिग्रहीष्यति ॥ २॥ यद्यु वा एनं प्रत्यञ्चमचैषीः, कस्मादस्य तर्हि पश्चात्पुच्छम- कार्षीः ॥ ३॥ यद्यु वा एनं न्यञ्चमचैषीः । यथा नीचः शयानस्य पृष्ठेऽन्नाद्य प्रतिष्ठापयेत् तादृक् तन्नैव ते इविः प्रतिग्रहीष्यति ॥ ४ ॥