पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् यद्यु वा एनमुत्तानमचैषीः, न वा उत्तानं वयः स्वर्गं लोकमभिवहति, न त्वा स्वर्गं लोकमभिवक्ष्यत्यस्वर्य उ ते भविष्यतीति ॥ ५॥ स होवाच-पाञ्चमेनमचैषं प्रत्यञ्चमेनमचैषं न्यञ्चमेनमचैषमुत्तानमेनमचैषँ सर्वा अनु दिश एनमचैषमिति ॥ ६॥ स यत्प्राञ्चं पुरुषमुपदधाति । प्राच्यौ स्रुचौ तत्प्राङ् चीयतेऽथ यत्प्रत्यञ्च कूर्ममुपदधाति प्रत्यञ्चि पशुशीर्षाणि तत्प्रत्यङ्चीयतेऽथ यन्न्यञ्चं कूर्ममुपदधाति न्यञ्चि पशुशीर्षाणि नीचीरिष्टकास्तन्न्यङ् चीयतेऽथ यदुत्तानं पुरुषमुपदधात्युत्ताने स्रुचावुत्तानमुलूखलमुत्तानामुखां तदुत्तानश्चीयतेऽथ यत्सर्वा अनु दिशः परिसर्वमिष्टका उपदधाति तत्सर्वतश्चीयते ।। ७ ।। अथ ह कोपा धावयन्तः निरूढशिरसमग्निमुपाधावयाञ्चक्रुस्तेषाँ, हैक उवाच श्रीर्वै शिरः श्रियमस्य निरौहीत् सर्वज्यानिं ज्यास्यत इति । म ह तथैवास ॥ ८॥ अथ हैक उवाच ! प्राणा वै शिरः प्राणानस्य निरौहीत्क्षिप्रेऽमुं (क्षिप्रममुं) लोकमेष्यतीति स उ ह तथैवास ॥९॥ ऊर्ध्वो वा एष एतच्चीयते । यद्दर्भस्तम्बो लोगेष्टकाः पुष्करपर्ण: रुक्मपुरुषो स्रुचौ स्वयमातृष्णा दुर्वेष्टका द्वियजूरेतःसिचौ विश्वज्योतिर्ऋतव्येअषाढा कूर्मोऽथ हास्यैतदेव प्रत्यक्षतमाँ शिरो यश्चितेऽग्निर्निधीयते तस्मान्न निरूहेत् ॥ १०॥ इदञ्च चिन्तितं गुणोपसंहारपदि । तत्र ---- मनश्चिदादयो विद्यामयामग्नयः क्रियामयक्रत्वङ्गतया क्रिया एव । एषाश्च विहितानां फलाकाङ्क्षायां पूर्वत्र, असद्वा इदमग्र आसीत् .' इतीष्टकचिताग्नेः प्रस्तुतत्वात् तस्य च क्रत्वव्यभिचारित्वेन ऋतूपस्थापकत्वात् तेन च क्रतोः संनिहिततया, सन्निहितेन ऋतुना एकवाक्यतैव कल्प्यते । न च तस्य क्रतोरिष्टकचिताग्न्यवरुद्धत्वात् कथं तत्र विद्यामयस्य मनश्चिदादेरग्नेः समावेश इति