पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम्

वाच्यम्-विकल्पेन समावेशोपपत्तेः । न च-एककार्यत्व एव विकल्पः स्यात् ,न हीष्टकचिताग्नेः विद्यामयमनश्चिदाद्यग्नेश्चैककार्यत्वं संभवति । इष्टकचिताग्निकार्यस्याभिधारणस्य विद्यामयैर्मनश्चिदादिभिः कर्तुमशक्यत्वात् - इति वाच्यम् - 'अभागिप्रतिषेधात् ' इति सूत्रे वार्तिके, 'पशुकामश्चिन्वीते ' त्यग्नेः पश्वर्थत्वश्रवणात् पश्वादिलक्षणफले विद्यामयस्यापि साधनत्वसंभवात् विकल्पोपपत्तेः । न च विद्यारूपस्य क्रियाङ्गत्वं न दृष्टमिति वाच्यम् --~~- द्वादशाहे दशमेऽहनि अविवाक्यनामके विहितस्य मानसग्रहस्य विद्यामयस्यापि क्रियामयकत्वङ्गत्वदर्शनात् । किञ्च, 'तेषामेकैक एव तावान् यावानसौ पूर्वः' इति विद्यामयेषु मनश्चिदादिषु इष्टकचिताग्निकार्यातिदेशात् तद्वदेव क्रियामयक्रतूपकारकाः - इति, “पूर्वविकल्पः प्रकरणात् स्यात् क्रिया मानसवत् 'अतिदेशाच्च" इति द्वाभ्यां सूत्राभ्यां पूर्वपक्षं प्रापय्य सिद्धान्तितम् - "विद्यैव तु निर्धारणात् दर्शनाच्च" | मनश्चिदादिः विद्यैव = विद्यामयक्रत्वभूतेत्यर्थः । विद्यारूपत्वस्य पूर्वपक्षेऽपि सत्वेन तस्य असाधनीयतया विद्याशब्दस्य विद्यामयक्रतुशेषत्वार्थकत्वस्यैव युक्तत्वात् । निर्धारणात् = 'विद्याचित एव' इति वार्तिके-पश्वर्थत्वश्रवणादिति । वार्तिकतः पश्वर्थत्वस्यावगमादित्यर्थः । ननु चयनसंस्कृतस्थण्डिलविशेषरूपाग्नौ आहवनीयरूपाग्निनिक्षेपेण तत्र होमकरणात् अस्ति स्थण्डिलस्य यागसंबन्धः । ईदृशस्थण्डिलमन्तरेणापि यागः क्रियताम् । तदा उत्तरवेदिमात्रमाहवनीयाधारः । चयनपक्षे उत्तरवेद्याऽस्य समुच्चयः । तत्र, श्येनचितं चिन्वीत स्वर्गकामः इत्यादि- वाक्यबलात् स्थण्डिलगतश्येनाकारतादेः फलं स्वर्गादीत्यपीष्यते । अथापि इष्टकचितस्याग्नेरपि पश्चादिफलार्थत्वेऽपि भावनीयाधारतया यागोपकारकत्वात्, गुणफलसंबन्धविधावर्णनसंभवात्. क्रत्वाश्रितेन इष्टचितेन फल सिद्धिः सुक्चा । न हि इष्टकचितस्येवाऽऽहवनीयाधारत्वं विद्यामयस्य संभवति । अतः क्रत्याश्रितत्वस्य दुर्वचत्वे ऋतुमत्यनिवेशायोगात् कथं तेन सह विकला इति चेन्न-'तेषामेकैक एव तावान् यावानसौ पूर्वः' इति वाक्येन इष्टकचितकार्ये विद्यामयविनियोगात् आहवनीयाग्निधारणस्य साक्षादभावेऽपि तदध्यासमात्रस्य कार्यकारत्वस्वीकारात् । अस्तु या दृष्टविधया इष्टकचितस्याहवनीयाधारत्वमिव विद्यामयस्यापि अदृष्टविधया तत्; वचनबलात् । नास्ति वचनस्यातिभार इति न्यायात् । मानसग्रहस्य मनसैव निष्पाद्यग्रहणासादनस्तोत्रशस्त्रादिक- तया तत्र स्तोत्रशस्त्रादीनां स्वरूपेणासतां ज्ञानस्य वास्तवस्तोत्रशस्त्रादिवत् क्रतूपकारकल्पनदिहापि कल्पनस्य संभवात् । अग्निरहस्ये कर्मकाण्डे एषामनुबन्धादेव प्रकरणात् क्रतूपकारकल्पनं हि सुकरमिति पूर्वपक्ष्याशयात् । विद्याशब्दस्येति । सूत्रे लाक्षणिकविद्याशब्दप्रयोगः विद्याचित एवेति श्रुत्यनुरोधेनेति तदर्थविचारावसरे दर्शितमनुसंधेयम् ।