पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् . निधारणादित्यर्थः । विद्यामयानामेव मनश्चिदादीनां विद्याचित एवेत्युक्तिः, 'शेषिणोऽपि विद्यामयत्वमेव ; न क्रियामयत्व ' मिति प्रतिपादयति । न च विद्यामय एव क्रतुरिति अत्र न दृश्यत इति वाच्यम् - 'यत किञ्च यज्ञे कर्म क्रियते, यत किञ्च यज्ञियं कर्मे । ति वाक्येन यज्ञानां तदङ्गानाञ्च मनोमयत्वप्रतिपादनेन विद्यामयक्रतोर्दर्शनाच्च विद्यामयक्रतुशेषत्वमेवेत्यर्थः । ननु यत् किञ्च यज्ञे कर्म क्रियते यत् किञ्च यज्ञियं कर्म, मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमक्रियत' इत्यत्र विद्यामयक्रतुप्रतीतावपि तत्र विध्यश्रवणात् न विद्यामयक्रतुशेषता ; अपितु पूर्वप्रस्तुतेष्टकचिताग्न्युपस्थितत्वात् क्रियामयशेषतैवोचिता। अतो विद्यामयक्रतुशेषता बाध्यत इत्यत्राह " श्रुत्यादिवलीयस्त्वाच्च न बाधः" । श्रुतिलिङ्गवाक्यानां प्रकरणात् बलीयस्त्वेन श्रुत्याद्यवगतस्य विद्यामयकत्वन्वयस्य प्रकरणेन न बाधः कर्तुं शक्यते । 'विद्यया हैवेते एवंविदश्चिता भवन्ती । ति वाक्यगता विद्ययेति तृतीया श्रुतित्वेन विवक्षिता । ननु तृतीयायाः शेषत्वश्रुतित्वेऽपि न शेषित्वश्रुतित्वम् । अतो विद्ययेति तृतीयाश्रुत्या न विद्यामयक्रतोः शेषित्वं प्रतिपादयितुं शक्यत इति चेत्- तर्हि, 'ते हैते विद्याचित एव । विद्यया हैवैते एवंविदश्चिता भवन्तीति वाक्यद्वयगत एवकारः श्रुतित्वेन विवक्षितोऽस्तु । ततश्च एवकारश्रुत्या विद्याव्यति विध्यश्रवणादिति । नात्र विद्यामयक्रतुस्वरूपविधायकवाक्याभावो विवक्षितः । तत्सदसद्भावविचारस्य, 'अनुबन्धादिभ्यः' इत्युपरितनसूत्रे कार्यत्वात् । किन्तु पूर्वमुक्तं विद्यामयक्रतुं प्रति उक्त विधानामग्नीनामङ्गत्वबोधको विधिर्न श्रूयत इति । तथाच विनियोजकप्रमाणाभावात् न तदङ्गत्वम् । क्रियामयक्रत्वङ्गत्वं तु प्रकरणरूपप्रमाणाद्भवतीति भावः । न शेषित्वश्रुतित्वमिति । शेषित्यमुद्देश्यत्यम् ; शेषत्वञ्च तदतिरिक्तकृति कारकत्वम् । तत् यया विभक्तया शक्तयोच्यते, सा श्रुतिः । अतो द्वितीयाविभक्तिः शेषित्वे श्रुतिः ; यथा व्रीहीनवहन्तीति। तृतीया तु तदतिरिक्तकरणत्वरूपकारकत्वाचिनीति अङ्गत्वे श्रुतिः ; यथा, व्रीहिभिर्यजेतति । न च विद्याया अङ्गत्वमिहेष्टम् । अतः करणाामर्थमुपेक्ष्य प्रयोजनतया हेतुत्व विवक्षया हेतौ तृतीयेयम् । स चार्थो लाक्षणिको न करणत्ववत् मुख्य इति न तस्य श्रुत्योध्यमानत्वमिति भावः । इत्थम्भूतलक्षणतृतीयापक्षेऽप्येवं श्रुतित्वाभाव एव । ..