पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

35

प्राज्ञास्ते तत्र हेतुं विदुरनघ ! नतत्राणदिव्याक्तारं
स्वैरोद्युक्तस्य, ये ते निरुपधिकयशोभातमिच्छन्ति धाम ॥१८६
देवेभ्यस्त्वं पुरस्सन् हित उदितवपुः पूर्वदेवान् तपन् स्याः
तद्द्वारा तद्धितश्च श्रितरम! महितं तेऽवतारे रहस्यम् ।
दिव्यत्वजन्मकर्मस्थितिमननपरो ह्यन्तिमप्रत्ययान्त
प्रज्ञाविष्पत्तितस्त्वां व्रजति हतपुनर्जन्मकर्मेति गीतम् ।।१८७
दिव्यं वेदाहमेतं मम भवतु नमो ब्राह्मरूपाय देवाः
यत् प्रादुर्भावयन्तः स्तुवत इति वदंस्त्वां प्रति श्रीश ! वक्ति ।
भूस्ते लक्ष्मीश्च पत्न्यौ दिनमुखसमयो देवसंघश्च देहः
नक्षत्राणि प्रकाशः फलमखिलमदोऽन्यच्च संकल्पयेति ॥ १८८

पुरुषव्रतम्


सूक्तं तत् सर्ववेदेष्वपि परिपठितं पौरुषं यस्य हि त्व
य्यैकान्त्यं स्पष्टघुष्टं स्मृतिषु, तव मितं वैभवं यत्र सर्वम् ।
एतत् नारायणाख्याप्रथितमपि यथाऽम्भस्यपरे तथाऽद्भ्य
स्संभूतश्चेति भागौ पुरुष उपनिषत्स्वस्तु लक्ष्मीश ! कोऽन्यः ॥ १८९
शक्तिर्मस्तिष्कसाध्या जगति भवति या ज्ञानकर्माक्षजैवं
लक्ष्मीकान्त ! ह्यनन्ता त्वयि धुतकरणापेक्षणे सा सदैव ।
इच्छायां विश्वरूपं कलयसि च भवत्यादिसर्गेऽप्यनन्ते
शीर्षादेस्ते द्युमुख्यम् , तत इह गदितोऽनन्तशीर्षाक्षिपात् त्वम् ॥ १९०
व्याप्य ब्रह्मण्डभूमिं दशगुणितजलाच्चाविभक्तं तमो यत्
कान्तो द्रव्यं तदन्तं दशविधमसि तद् विधमेतत् त्वमेव ।
श्रीश ! त्वं षड्भुणान्नप्रतिकलकलितर्द्धेश्च मुक्तेः प्रदाता
बद्धास्ते पादमहं दिवि तु तव सदा सन्ति नित्यास्त्रिपादः । १९१