पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् २८९ रिक्तक्रियामयक्रतुशेषत्वे व्युदस्ते विद्यामयक्रतुशेषत्वमर्थात् सिध्यति । तथा, 'तान् हैतानेवंविदे सर्वाणि भूतानी' ति सर्वभूतसर्वकालव्यापिचयनस्य मनसा संपाद्यस्य परिमितकर्तृकक्रियामयक्रत्वनुप्रवेशासामर्थ्यात् सामर्थ्यलक्षणलिङ्गविरोधेन क्रियामयक्रत्वनुप्रवेशे व्युदस्ते विद्यायक्रतुशेषत्वं सिद्धयति । तथा, 'एवंविदे सवणि भूतानि चिन्वन्ती ति विद्यासमभिव्याहाररूपवाक्यवशादपि विद्यामयक्रतुशेषत्वसिद्धिः । ननु एवंविदे इति चतुर्थीश्रुत्यैव विद्यायाः शेषित्वावगमात् समभिव्याहारलक्षणवाक्यस्य विद्यामयक्रतुशेषत्वबोधकत्वं कुतोऽभ्युपेयमिति चेत्--- एवंविदे इति चतुर्थी श्रुत्या विद्यावतः शेषित्वबोधनेऽपि विद्यायाः शेषित्वाबोधनेन वाक्येनैव विद्यामयक्रतोः शेषत्वस्य बोधनीयत्वात् । . ननु विद्यामयक्रतौ विध्यनुपलम्भात् कथं तच्छेषत्वमित्यत्राह, बन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद् दृष्टश्च तदुक्तम् । यज्ञानुबन्धिग्रहस्तोत्रशस्त्रादीनाम् , 'मनसाऽस्तुवत मनसाऽशंसन् ' इत्यादिना आम्नातत्वात् तेषाञ्च . अर्थात् सिद्धयतीति । ननु एवकारसमग्निव्याह्रतेन पदेन यत्र यत्संबन्धो यो बोध्यते, तत्र तदन्यत्तादृशसंबन्धनिषेध एवकारेण क्रियते । यथा भूतल एव घट इत्यत्र घटस्य भूतलवृत्तित्वे बोध्यमाने तदन्यवृत्तित्वनिषेधः तत्रैवकारेण | एवञ्वेह यदि विद्याशेषत्वमग्नीनां न बोध्यते, एवकारेण तदन्यक्रियामयक्रतुशेषत्वं न निषिध्येत । यदि च तदर्थं साक्षात् तद् बोध्यते, तर्हि अर्थात् सिद्धि रिति कथमुच्यत इति चेत् - उच्यते । विद्याचित एवेत्यत्र विद्याचिच्छन्दः विद्याङ्गत्वमेषां न स्पष्टमाह । तदर्थश्च संदिग्धः । एवकारस्य पूर्वोक्तरीत्या कश्चिदर्थो निश्चितः । तत्र विद्याचित्पदस्य यादृशार्थस्वीकारे एवकारवैयर्थ्यं न स्यात् । तादृशोऽर्थः स्वीकार्य इति परिशील्य एवकारेण विद्येतराङ्गत्वनिषेधे क्रियमाणे तस्य सार्थक्यमित्यवधार्य विद्याचित्पदेन विद्याशेषत्वाबोधने एवकारेण तदर्थोक्यसभवात् पूर्वोक्त्तरीत्या एवकारार्थसिद्धयर्थमेव विद्याचित्पदं तदर्थकतया पश्चादवधार्यते । अतोऽर्थात् सिद्धयतीत्युक्तम् । 'सिद्धयतु नाम तथैव । अथापि विद्याचित्पदमेव श्रुतिरस्तु' इति चेन्न-विवक्षितस्यार्थस्य लक्षणयैव लभ्यतया तत्र तस्य श्रुतित्वासंभवात् । एवकार एव तु श्रुतिः । अन्यसंबन्धनिषेधरूपमुख्यार्थकत्वात् । अतः सूत्रे श्रुतिपदमेव- कारपरमिति । 37