पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् क्रत्वव्यभिचारित्वात् , क्रियामयस्य च क्रतोरसंभवस्योक्तत्वात् विद्यामयक्रतुविधिरुन्नीयते । यथा 'स यदि सोमं विभक्षयिषेत् न्यग्रोधस्तिभिनीराहृत्य ताः संपिप्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेत् ; न सोमम्' इति । अत्र यागार्थद्रव्यसंस्कारभक्षणसंगत्या स्तिभिनीचमसेषु (नीषु !) यागान्वयकल्पनस्य दृष्टत्वात् । अनुबन्धादीति आदिशब्देन श्रुत्यादयः पूर्वोक्ता गृह्यन्ते । प्रज्ञान्तरपृथक्त्ववत् । यथा प्रज्ञान्तरं दहरविद्यादिकं क्रियामयात् क्रतोः पृथग्भूतं श्रुत्यादिभिरवगम्यते, एवमनुबन्धादिभिर्विद्यामयः क्रतुः कल्प्यत इत्यर्थः । दृष्टश्चानुवादसरूपेषु कल्यमानो विधिः । तदुक्तम्, 'वचनानि त्वपूर्वत्वात् ' इति । ननु, 'तेषामेकैक एव तावान् यावानसौ पूर्वः' इत्यतिदेशेन प्रकृतेष्टकचिताम्नितुल्यत्वावगमात् क्रियामयकत्वनुप्रवेशोऽवगम्यत इति चेत्-तत्राह, “न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः । न ह्यतिदेशबलात् सर्वथा साम्यं ऋतोरसंभवस्येति । क्रतोरेतदङ्गित्वासंभवस्येत्यर्थः । यथेत्यादि । न सोममिति इत्यत्र एतद् वाक्यं समाप्तम्। उपरि अत्रेत्यादि तदुपपादकवाक्यान्तरम् । 'स्तिमिनीफलानि । 'तद् यत्रतत् सोमं क्रीणीयात् , तदेतानि फलानि क्रीणीया' दिति बहवृचब्राह्मणात्' इति सोमनाथीये। अत एव स्तिभिनीचमसस्य फलचमस इति सौत्रं नामेति द्रष्टव्यम् । दृष्टत्वादिति । अयं भावः --- राजन्यवैश्यान्यतरकर्तृके सोमयागे राक्ज्ञे वैश्याय वा यजमानाय न सोमं भक्ष्यत्वेन दद्यात् ; किंतु दधिमिश्रन्यग्रोधफलरसम् । सोमवत् फलान्यप्यानाय्य संपिष्य दध्ना समेत्य तं संपादयदिति प्रकृतवाक्ये श्रूयते । किमत्र यागं स्टोमेन कारयित्वा यजमानाय फलरसो भक्षणाय परमुपयोक्तव्यः, किं वा अनेन यागोऽपि कार्य इति मीमांसितं तृतीयपञ्चमे, 'फलचमस' इत्यादिभिः सूत्रै- (४७-५१)। सिद्धान्तितञ्चैवम्-'न सोमम् ' इति सोमरसभक्षणस्य बाधनात् तस्य च यागोपयुक्तद्रव्यसंस्कारकत्या प्रतिपत्तिकर्मत्वात् फलरसभक्षणस्यापि प्रतिपत्तिकर्मत्वप्रतीत्या, यागोपयोगाभावे च प्रतिपत्तित्वासिद्धेः एतत्साध्ययागविधिरुन्नीयत इति । अतो यजमानसबन्धिचमसे गृहीतः फलरसः सोमयागाङ्गत्वेन विधीयते विधिकल्पनया सोमबाधेन सोमद्रव्यकस्य फलद्रव्यक्त्वायोगात् । तद्वदिहापि मानसग्रहस्तोत्रशस्त्रादेः क्रियामयक्रतुनिवेशानर्हस्य विद्यामयक्रत्वङ्गत्वस्य एषितव्यतया विधिकल्पनेति । अत्रायं विशेष:- तत्र स्थित एव सोमयागे सोमबाधेन फलद्रव्यविनियोगविधिमात्रम् , इह तु विद्यामयक्रतूत्पत्ति विधिरपीति । एवमप्यविशिष्टा विधिकल्पनोभयत्र । फलचमसस्थलमिदं विधिकल्पनोदाहरणतया वैशद्यार्थमुक्तम् । न त्विह सूत्रे तद्विवक्षा । तत्र फलचमसयागसंबन्धस्येवात्र विद्यामयक्रतुतत्संबन्धयोरत्यन्ताश्रुतत्वाभावात् । यत् किञ्च यज्ञे कर्म क्रियते यत् किञ्च यज्ञियं कर्म - मनोमयमक्रियते' ति श्रवणात् । विधिः परं न श्रूयते । अतः ईदृशस्थलान्तराभिप्रायेण दृष्टश्चेति सूत्रखण्डं व्याख्याति दृष्टश्चेत्यादिना। v - सोमबाधेन ;