पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् - [वैश्वानरविद्या] अथ हैतेऽरुणे औपवेशौ समाजग्मुः सत्ययज्ञः पौलुषिर्महाशालो जाबालो बुडिल आश्वतराश्विरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यः । वक्तव्यम् ; येन क्रियामयकत्वनुप्रवेशः स्यात् । स्वशेषिभूतक्रतुद्वारा फलजनकत्वरूप- विवक्षितसामान्यमात्रेणाप्यतिदेश उपपद्यते । स एष एव मृत्युर्य एष एतस्मिन् मण्डले पुरुषः' इत्यत्र संहर्तृत्वसामान्यविवक्षयाऽपि मृत्युशब्दः प्रयुक्तः । न तु सर्वथा साम्यं विवक्षित्वा । तथात्वे मृत्युवत् मण्डलपुरुषस्यापि मृत्युलोकप्राप्तिः स्यात् । अतो विवक्षितसाधर्म्यमात्रेणापि, ‘तेषामेकैक एव तावान्' इत्यतिदेशः उपपद्यते । " परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः" । परेण च ब्राह्मणेन अस्यापि मनश्चिदाद्यभिधायिनः शब्दस्य ताद्विध्यं तद्विधत्वं-विद्यामयप्रतिपादकत्वमवगम्यते । परस्मिन् हि ब्राह्मणे, 'अयं वाव लोक एषोऽग्निश्चितः । तस्याप एव परिश्रितो मनुष्या यजुष्मत्य इष्टकाः' इत्यारभ्य, सर्वोग्निर्लोकम्पृणामभिसंपद्यते स यो हैतदेवं वेद लोकम्पृणाम् एनं भूतमेतत् सर्वमभिसंपद्यते' इति सर्वभूताभिसंपत्तिफलायाः क्रियामयक्रत्वनाभूताया विद्यायाः प्रतिपादनदर्शनेन मनश्चिदादीनां सांपादिकाग्नीनां न क्रियामयक्रत्वनुप्रवेशित्वम् । ननु मनश्चिदादीनां क्रियानुबन्धाभावे अग्निरहस्ये कर्मकाण्डेऽनुबन्धः किमर्थमित्यत्राह - भूयस्त्वात्त्वनुबन्धः । मनश्चिदादिषु संपादनीयानामग्न्यङ्गानां भूयस्त्वात् तत्सन्निधाविहानुबन्धः कृत इति स्थितम् ।। इति अग्निब्राह्मणप्रकाशिका । वैश्वानरविद्या प्रस्तूयते अथ-समियाय । पुलुषसुतः सत्ययज्ञनामा, महागृहस्थो जबालासुतः, अश्वतराश्वसुतो बुडिलनामा, भाल्लविसुत इन्द्रद्युम्ननामा, शार्क- राक्षसुतो जननामा एते पञ्चापि महर्षयः उपवेश(शि ?) सुतस्यारुणस्य समीपमागताः । मण्डलपुरुषस्यापीति | विषयोऽयं पूर्वब्राह्मणस्थितः । उपवेशसुतस्येति । बृहदारण्यकान्ते (८.५.) अरुणः उपवेशिशिष्यत्वेनोक्तः, 'उद्दालको. रुणात्, अरुण उपवेशः, उपवेशिः कुश्रेः' इति।