पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् ते ह वैश्वानरे समासत । तेषाँ ह वैश्वानरे न समियाय ॥ १॥ ते होचुः-- अश्वपतिर्वा अयं कैकेयः सम्प्रति वैश्वानरं वेद : तं ते सर्वेऽपि महर्षयः वैश्वानरे विश्वेषां नराणां नेतरि परमात्मनि समासत एकीभूय विचारं कृतवन्तः । तेषाञ्च वैश्वानरविषये बुद्धिर्न समियाय न सङ्गताऽभूत् = ऐक्यं न गता। परस्परं विवदमाना एव स्थिता इत्यर्थः ॥ १ ॥ ते प्रोवाच । केकयसुतः अश्वपतिः अधुना वैश्वानरमुपास्ते, तमभ्या-

ते इति अरुगप्रभृतिसर्वग्रहणम् । सत्ययज्ञादयः पञ्च महर्षयश्छान्दोग्येऽपि निर्दिष्टाः । परमत्र महाशाल जाबालस्थाने तत्र प्राचीनशाल औपमन्यवः । तत्र प्राचीनशाल इति ऋषिनामेति अग्न्यप्रायन्यायानुसारेण भाष्यम् । इह महाशालपदं महागृहस्थार्थकमुक्तम् । महाशालपदमिदं तत्र, 'ते हैते महाशाला महाश्रोत्रियाः' इति सर्वर्षिविशेषणतया प्रयुक्तत्वात् यौगिकमवरीयते; जाबालोऽयमप्यौपमन्यव एवेति अत्रोपरि औपमन्यवेति संबोधनादेव ज्ञायते । तदयञ्च प्राचीनशालश्चैक इति युक्तम् । परमयं जाबालः छान्दोग्यसत्यकामविद्यादिप्रसिद्धो जाबालश्च यद्येकः, तर्हि सत्यकामस्य तस्य उपमन्युः पितेति इतो विज्ञेयम् । अन्योऽप्ययं भवितुमर्हति । सर्वथा महर्षयः पञ्चेमे एव छान्दोग्येऽपि निर्दिष्टा इति सुवचम् । एवमश्वपतिः कैकेयोऽप्युभयत्र समानः । तत्रोद्दालक आरूणि: गौतम उक्तः ; अत्र तस्य पिता अरुण औपवेशिर्गौतम उक्त इति । एवं तत्तदुपास्यांशवर्णनेऽपि वैलक्षण्यं लक्ष्यते -तत्र मूर्धोपासक औपमन्यवः, इह तु जनः शार्कराक्ष्यः ; तत्र चक्षुरुपासकः सत्ययज्ञः, इहेन्द्रद्युम्नः ; तत्र प्राणोपासक इन्द्रद्युम्नः, इह बुडिलः तत्र मध्यकायोपासको जनः, इह जाबालः ; तत्र वस्त्युपासको बुडिलः, इह सत्ययज्ञ इति । गौतमस्तुभयत्र पादोपासक एव । एवमुपपादनवैषम्येऽपि तत्तदुपास्याकाराणां सर्वेषो मेलनं वैश्वानरविद्यायामित्येतदुभयत्राविशिष्टम् । अन्यांशस्यार्थवादमात्रत्वात् तद्वैषम्यं नोपास्याकारभेदमावक्ष्यति । कथावैषम्यशङ्का तु कल्यभेदकल्पनया वा विभिन्नवैश्वानरोपासकत्ववर्णनमात्रतात्पर्येण वा परिहार्या । यत्तु किश्चित् उपास्यांशेऽपि बैलक्षण्यं प्रतीयमानम् , यथा तत्र दिव उक्तं सुतेजस्त्वमिह आदित्यस्योक्तं विश्वरूपत्वस्थाने, दिवस्तु अतिष्टात्वमिति किञ्चिदिति, -तत्र शब्दभेदेऽपि अनुसंधेयोऽर्थ एकरूप एवेति श्रुतप्रकाशिकायामेव समाहितमस्ति । प्रादेशमात्रत्वं परमेकतामापादयितुमशक्यं मिद्यमानं विद्यायां विकल्पेन निविशते इति परिशीलनीयम् । छान्दोग्ये निरूपणसरणौ मूर्धादिपादान्तकम आदृतः, इह तु पादादिमूर्धान्तक्रम इत्यपि किश्चित् । प्राणाहत्याद्यसविस्तरछान्दोग्ये विशिष्यते । फलभेदेशङ्काऽप्येवं परिहार्या ।