पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् गच्छामेति । ते हाश्वप्रतिं कैकेयमाजग्मुः । तेभ्यो ह पृथगावसथान् पृथगपचितीः पृथक्साहस्रान्त्सोमान् प्रोवाच । ते ह प्रातरसंविदाना एव समित्पाणयः प्रतिचक्रमिरे, उप त्वा यामेति ।। २ ॥ स होवाच-यन्नु भगवन्तोऽनूचाना अनूचानपुत्राः, किमिदमिति । ते होचुर्वैश्वानर ह भगवान्त्सम्प्रति वेद । तं नो ब्रूहीति । स होवाच-सम्प्रति खलु न्वा अहं वैश्वानरं वेद । अभ्याधत्त समिधः उपेताः स्थेति ॥ ३॥ गच्छामेत्युक्त्वा तमाजग्मुः । तेभ्यः प्राप्तेभ्यः प्रत्येकं गृहान् प्रत्येक पूजाश्च कृत्वा, 'सहस्रदक्षिणैः सोमैर्यक्ष्ये । युष्मभ्यं च बहुधनं दास्यामि । तावन्तं कालमुषित्वा अनुगृह्णन्तु ' इति प्रार्थयामास । ते-त्वा यामेति । ते षडपि महर्षयः अपरेयुः प्रातःकाले स्वस्या परस्परमसंमन्त्र्यैव समिद्भारहस्ताः, त्वां शिष्यास्सन्तः उपगच्छाम । इति प्राप्ताः ॥ २ ॥ स-किमिदमिति । हे पूज्याः भगवन्तः ! श्रुताध्ययनसंपन्नाः तादृशकुलप्रसूताश्च भवथ । भवतां किमविदितम् ! यदिदं समिद्भारहस्तनया मदुपसर्पणम् , तत् कि कस्य हेतोः ? ते होचुः -- ब्रूहीति । स्पष्टोर्थः । स स्थेति स चाश्वपतिर्बाह्मणानां अब्राह्मणैरुपनयनम् अनुचितमिति मत्वा, हे महर्षयः! अहं वैश्वानरं जान एव। उपताः स्थ । यूयं पूर्वमेव स्वाचार्यैः कृतोपनयना एव । अथवा उप त्वा यामेत्युक्त्यैव यूयमुपेतप्राया एव = शिष्यत्वेनोपगतपाया एव । आनीताश्च समिधः स्वस्वाग्निषु प्रक्षिपत । केवलं मैत्र्यैवोपदेक्ष्यामीति भावः (उवाचेति ?) ॥ ३॥

अनुगृह्णन्तु इति प्रार्थयामासेत्यनेन एषां प्रतिग्रहे अत्यन्तनैःस्पृह्यं द्योतितम् । अत एव हि असद्द्रव्यबुध्या प्रतिग्रहमुपेक्षेरन्निति शङ्कया राज्ञा तत्परिहारः कृतः 'न मे स्तेनो अनपदे न कदर्यो न मद्यपः । नानाहिताग्निर्नाविद्वान् न स्वैरी स्वैरिणी कुतः ।' इति दर्शितं छान्दोग्ये।