पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२९४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् स होवाचारुणमौपवेशिम् । गौतम। त्वं वैश्वानरं वेत्थेति पृथिवीमेव राजन्निति होवाच । ओमिति होवाच । एष वै प्रतिष्ठा वैश्वानरः । एतं हि वै त्वं प्रतिष्ठां वैश्वानरं वेत्थ । तस्मात् त्वं प्रतिष्ठितः प्रजया पशुभिरसि । यो वा एतं प्रतिष्ठां वैश्वानरं वेद, अप पुनर्मत्यु जयति ; सर्वमायुरेति । पादौ त्वेतौ वैश्वानरस्य। पादौ ते ग्लास्येताम् , यदि ह नागमिष्य इति ॥४॥ अथ होवाच सत्ययज्ञं पौलुषिम, प्राचीनयोग्य ! के त्वं वैश्वानरं वेत्थेति । अप एव राजनिति होवाच । ओमिति होवाच, एष वै रयिर्वैश्वानरः। एत हि वै त्वं रयिं वैश्वानरं वेत्थ। तस्मात् त्वं रयिमान् पुष्टिमानसि । यो वा एतँ रयिं वैश्वानरं वेद, अप पुनमृत्यं जयति ; सर्वमायुरेति । वस्ति त्वा एष वैश्वानरस्य। वस्ति त्याहास्यत् , यदि ह नागमिष्य इति। वस्तिस्ते- ऽविदितोऽभविष्यत् । यदि ह नागमिष्य इति वा ॥ ५ ॥ वैश्वानरे विवदमानान् तानालोच्य ज्ञाताज्ञातांशबुभुत्सया तान् प्रत्येकं प्रष्टुमुपक्रमते । स होवाच वेत्थेति । गौतमगोत्रत्वात् गौतमेति संबोधनम् । इतर आह पृथिवीमेव राजन्निति होवाच । पृथिवीशरीरकात्मानमुपासे इत्युवाचेत्यर्थः । अङ्गीकरोति ओमिति । उपदेष्टत्यांशमुपदिशति एष वै प्रतिष्ठा-- । त्वया उपास्य- मानपृथिवीशरीरकवैश्वानरामा प्रतिष्ठा । पृथिव्याः सर्वभूताधारस्वात् प्रतिष्ठात्वम् । ततश्च सर्वभूताधारत्वलक्षणगुणयोगनिमित्तप्रतिष्ठासंज्ञोऽयं त्वदुपास्यमानः पृथिवीशरीरको वैश्वानरात्मेत्यर्थः । एतं हि-सर्वमायुरेति । स्पष्टोऽर्थः । एवं फलप्रदर्शनेन प्रलोभ्य तस्य वैश्वानरात्मपादतया वैश्वानरात्मान्वयेऽपि वैश्वानरात्मत्वपर्याप्त्यधिकरण (णत्वं.) न भवति । अतो मत्समीपमागत्य अस्य श्रोतव्यस्यार्थस्याश्रवणे तव पादौ ग्लानौ भविष्यत इत्याह पादौ- इति । एवमुत्तत्रापि । पादावविदितावभविष्यतां यदि नागमिष्य इति पाठे अविदितौ अज्ञातौ-नष्टावित्यर्थः ॥ ४ ॥ अथ होवाच सत्ययज्ञं-। प्राचीनयोग्योति सत्ययज्ञस्य नामान्तरम् । रयिः धनम् । वस्तिः मूत्रस्थानम् । अहास्यत अत्यक्ष्यत । 'ओ हाङ त्यागे'। शिष्टं स्पष्टम् ॥ ५॥ --