पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

" अग्मिरहस्यम् २९५ अथ होवाच महाशाल जाबालम्-औपमन्यव! के त्वं वैश्वानरं वेत्थेति । आकाशमेव राजन्निति होवाच । ओमिति होवाच, एष वै बहुलो वैश्वानरः । एतँ हि वै त्वं बहुलं वैश्वानरं वेत्थ । तस्मात् त्वं बहुः प्रजया पशुभिरसि । यो वा एतं बहुलं वैश्वानरं वेद, अप पुनर्मृत्युं जयति; सर्वमायुरेति । आत्मा त्वा एष वैश्वानरस्य । आत्मा त्याहास्यत् , यदि ह नागमिष्य इति आत्मा तेऽविदितोऽभविष्यत् , यदि ह नागमिष्य इति वा ।। ६ ।। अथ होवाच बुडिलमाश्वतराश्विम् -- वैयाघ्रपद्य ! के त्वं वैश्वानरं वेत्थेति । वायुमेव राजन्निति होवाच। ओमिति होवाच, एप वै पृथग्रथवैश्वानरः, एत हि वै पृथग्वर्त्मानं वैश्वानरं वेत्थ । तस्मात् त्वां पृथग्रथश्रेणयोऽनुयान्ति। यो वा एतं पृथग्वर्त्मानं वैश्वानरं वेद, अप पुनर्मृत्यु जयति ; सर्वमायुरेति। प्राणस्त्वा एष वैश्वानरस्य । प्राणस्त्वाहास्यत् , यदि ह नागमिष्य इति । प्राणस्तेऽविदितोऽभविष्यत् , यदि ह नागमिप्य इति वा ।।७ अथ होवाचेन्द्रद्युम्नं भाल्लवेयम् -वैयाघ्रपद्य! कं त्वं वैश्वानरं वेत्थेति। आदित्यमेव गजन्निति होवाच । ओमित् होवाच, एष वै सुततेजा वैश्वानरः । एतं हि वै त्वं सुततेजसं वैश्वानरं वेत्थ। तस्मात्तवैष सुतोऽद्यमानः पच्यमानो- 1 अथ होवाच महाशालं'- भूतान्तरापेक्षया आकाशस्य विपुलत्वात् बहुलत्वम् । आत्मा मध्यकाय इत्यर्थः । छान्दोग्ये समानप्रकरणे मध्यकायवाचिसंदेहशब्दश्रवणात् । शिष्टं स्पष्टम् ॥ ६ ॥ अथ होवाच बुडिलं--- 1 वायोर्वियद्गतिमत्त्वात् पृथग्वर्त्मत्वम् । त्वां पृथगरथश्रेणयोऽनुयान्ति । स्थपङ्कतयो नानादेशस्थाः त्यामनुयान्तीत्यर्थः । शिष्ट स्पष्टम् ॥ ७॥ अथ होवाचेन्द्रद्युम्नं- । शोभनं तेजः यस्य स सुतेजाः । सुततेजा इति पाठेऽपि स एवार्थः । अभिषुतः एष सोमः अद्यमानः पीयमानः पच्यमानः अग्निषु 1. महाकाश्यमिति पाठः अशुद्धः ।