पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

, २९६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् ऽक्षीयमाणो गृहेषु तिष्ठति । यो वा एतँ सुततेजसं वैश्वानरं वेद, अप पुनर्मृत्युं जयति ; सर्वमायुरेति । चक्षुस्त्वा एतद्वैश्वानरस्य । चक्षुस्त्वाहास्यत् , यदि है नागमिष्यः । चक्षुस्तेऽविदितमभविष्यत् , यदि ह नागमिष्य इति वा ॥ ८॥ अथ होवाच जनँ शार्कराक्ष्यम्-सायवस! के त्वं वैश्वानरं वेत्थेति । दिवमेव राजन्निति होशच । ओमिति होवाच, एष वा अतिष्ठा वैश्वानरः । एतँ हि वै त्वमतिष्ठां वैश्वानरं वेत्थ । तस्मात् त्वं समानानति तिष्ठसि । यो वा एतमतिष्ठां वैश्वानरं वेद, अप पुनर्मत्युंजयति ; सर्वमायुरेति। मूर्धा त्वा एष वैश्वानरस्य । मूर्धा त्वाहास्यत् , यदि ह नागमिष्य इति । मूर्धा तेऽविदिनोऽभविष्यत् , यदि ह नागमिष्य इति वा ॥९॥ तान् होवाच । एते वै यूयं पृथग्वैश्वानरान् विद्वांसः पृथगन्नमधस्त । प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसम्पन्नाः । तथा तु व एनान् वक्ष्यामि, यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति ॥ १० ॥ हूयमानः। अक्षीयमाणः गृहेषु तिष्ठति। तस्य गृहे सर्वदा सोमयागा अनुवर्तमाना भवन्तीत्यर्थः ।। ८ ॥ अथ होवाच जनं. । अतीत्य तिष्ठतीत्यतिष्ठाः। दिवः सर्वलोकान् अतीत्य स्थितत्वात् अतिष्ठात्वम् ॥ ९॥ तान् होवाच --- | एतादृशा यूयं वैश्वानरान् पृथक्पृथक् उपासीनाः पृथगेव अन्नं भोग्यजातमनुभवथ । न तु सर्वलोकसर्वभूतसर्वात्मस्थब्रह्मरूपान्नानुभवो वोऽस्तीति भावः । प्रादेशमात्रमिव --- संपन्नाः । देवाः सूर्यादयः यदा उपासनया प्रादेशमात्रमभिसंपन्नाः प्राप्ता इव भवन्ति, तदा ते विदिता भवन्ति । द्युसूर्यपृथिव्यादिपरिच्छिन्नस्य कथं प्रादेशमात्रत्वाभिसंपत्ति: ? तत्राह तथा तु वः - संपादयिष्यामीति । यथा धुप्रभृतयः प्रादेशमात्रमभिसंपद्यन्ते, तथा वक्ष्यामीत्यर्थः ॥ १०॥