पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् - , .. स होवाच मूर्धानमुपदिशन् , 'एष वा अतिष्ठा वैश्वानर इति; चक्षुषी उपदिशन्नुवाच, एष वै सुततेजा वैश्वानर इति, नासिके उपदिशन्नुवाच, एष वै पृथग्वर्त्मा वैश्वानर इति, मुख्यमाकाशमुपदिशन्नुवाच, एष वै बहुलो वैश्वानर इति, मुख्या अप उपदिशन्नुवाच, एष वै रयिर्वैश्वानर इति, चुबुकमुपदिशन्नुवाच, एष वै प्रतिष्ठा वैश्वानर इति। स एषोग्निवैश्वानरो यत् पुरुषः। स ह -1 मूर्धानम् उपदिशन् कराग्रेण दर्शयन् उवाच । एष वै-। प्रसिद्ध उपासकमूर्धनि अतिष्ठासंज्ञकवैश्वानरमूर्धभूतधुलोकदृष्टिः कर्तव्येत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । मुख्यमाकाशं -। मुख्याकाशः आस्यान्तर्गताकाशः । मुख्या अपः । अत्रापि मुख्यशब्दस्य पूर्ववदर्थः । चुवुकमुपदिशन् --- | अधराधोवयवविशेषः चुबुकशब्देनोच्यते । ततश्च प्रादेशपरिमिते मूर्धचुबुकान्तराळे त्रैलोक्यशरीरकस्य वैश्वानरस्याऽऽत्मनः संपादितत्वात् प्रादेशमात्रत्वम् । यथा एकस्मिन्नग्नीषोमीययागे शाखाभेदेन विहितयोः एकादशद्वादशकपालत्वयोः विकल्पेन अनुष्ठानम् ; न तु यागभेदः, एक्मेकस्यां वैश्वानरविद्यायां छान्दोग्यवाजसनेयकशाखाम्नातप्रादेशमात्रत्वप्रकारविशेषयोः विकल्पेनानुष्ठानम् । नैतावता विद्याभेदः शङ्कनीयः । स एषोग्निर्वैश्वानरो यत् पुरुषः । यच्छब्दः प्रसिद्धिपरः । 'सहस्रशीर्षा पुरुष ' इत्यादिवेदान्तवाक्येषु प्रसिद्धो यः पुरुषः, स एष वैश्वानरोऽग्निः । अत्र प्रादेशमात्रत्वप्रकार विशेषयोरिति । एतदुपपादनक्रमः छान्दोग्यभाष्यपरिष्कारयोर्द्रष्टव्यः । नन्वत्र वैश्वानरविद्यायाम् , ' अप पुनर्मत्युं जयति, सर्वमायुरेति' इति आयुष्काल- मध्ये मरणं विना पूर्णायुःप्राप्तिरूपफलश्रवणात , छान्दोग्ये तु 'को न आत्मा किं ब्रह्मे' त्युपक्रमानुसारेण ब्रह्मविद्यात्वावगमात् ब्रह्मप्राप्ति रूपफलाङ्गीकाराच्चोभयोर्भेदात् प्रादेशमात्रत्वं तत्र तत्र व्यवस्थितमिति कथं वैकल्पिकत्ववाद इति चेन्न - उपाख्यानशैलीसाम्यात् विश्वलोकशरीरकत्वोपासनविधानाचैक्यस्य प्रतीयमानतया फलैक्यस्यापि स्वीकारात् । अप पुनर्मृत्यु जयतीति मृत्यों- रपजयो हि मोक्ष एव भवितुमर्हति । यथा नाचिकेतब्राह्मणोक्तो मृलोरपजयो मोक्षः । “सर्वमायुरेती' त्येतत्तु मोक्षोपयोगिविद्यानिष्पत्त्यपेक्षितमायुरानुषङ्गिकं दर्शयेत् । यथा छान्दोग्ये प्राणामिहोत्रप्रस्तावे, 'तृप्यति प्रजया पशुभिरन्नाधेन तेजसा ब्रह्मवर्चसेने' ति । अत एव सर्ववेदान्तप्रत्ययाधिकरणे श्रीमाष्यम् - " फलसंयोगोऽप्युभयत्रापि ब्रह्मप्राप्तिरूपोऽविशिष्टः" इति । "