पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

, .. २९८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद, अपपुनर्मृत्युं जयति, सर्वमायुरेति न हास्य ब्रूवाणञ्चन वैश्वानरो हिनस्ति ॥११॥ अग्निशब्दः अपर्यवसानवृत्त्याऽग्निशरीरकपरमात्मपरः । स यो-एति। द्युप्रभृतिमूर्धादिमत्त्वात् पुरुषविधत्वम्। पुरुषेऽन्तः प्रतिष्ठितत्वञ्च पुरुषान्तःप्रतिष्ठितजाठराग्निशरीरकं परमात्मन्युपपद्यते। सूत्रितञ्च, “शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथादृष्टयुपदेशादसंभवात् पुरुषमपि चैनमधीयते " इति । अत्र च वक्तव्यं छान्दोग्योपनिषत्प्रकाशिकायामुक्तम् ; तत्रैवानुसन्धेयम् । न हास्य ब्रूवाणं चन वैश्वानरो हिनस्ति । वैश्वानरविद्यानिष्ठत्वाभावेऽपि वैश्वानरविद्याप्रतिपादकोपनिषत्पाठकमपि तत्पतिपाद्यः परमात्मा संसाराम्बुधौ न पातयतीत्यर्थः ॥ ११ ॥ क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदविदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।। इति श्रीमत्तात्ताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवा- समधिगतशारीरकमीमांसाभाष्यहृदयस्य परकाल- मुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु अग्निरहस्यप्रकाशिका ॥ शुभमस्तु । अग्निशब्दोऽपर्यवसानवृत्त्येति । ननु किमत्र विनिगमकम् ? अग्निशब्द एव, 'साक्षादप्य- विरोधं जैमिनिः' इति दर्शिताप्रनयनार्थकोऽस्तु, वैश्वानरपदञ्चापर्यवसानवृत्त्या परमात्मपरम् । अस्तु मा अग्निपदोक्तं विशिष्टे विशेषणमात्रान्वयि जाठराभित्वरूपं वैश्वानरत्वं विशेषभूतम् । पदद्वयमपि मा यौगिकमेव भवतु-इति चेन्न-वैश्वानरपदस्य विद्याप्रक्रमप्रभृति श्रूयमाँतया तत्र, द्युपृथिव्यादि- शरीरकतया, दीपोक्तरीत्या ब्रह्मपदस्थानापन्नतया च जाठराग्निग्रहणासंभवे स्थिते तदा जाठराग्नि ग्रहणस्यावश्यकत्वानवगमेन च बाधकबलात् अनन्यथासिद्धाग्निलिङ्गाभावाच्चोपक्रमे वैश्वानरपदं योगिकमित्यवधारणात् । अग्निपदमप्यत्र श्रूयमाणं यौगिकं भवत्विति तु न शङ्कयम् - अन्तः- प्रतिष्ठितत्वरूपलिङ्गस्यात्र, प्राणाहुत्याधारस्वरूपस्य च लिङ्गस्य छान्दोग्ये प्रतीयमानतया लोकप्रसिद्धस्योदर्याग्नेरपि ग्राह्यत्वादिति । छान्दोग्योपनिषत्प्रकाशिकायामिति । वैश्वानाधिकरणसूत्राणां प्रायश्छान्दोग्यवाक्यग्रहणेन प्रवृत्तत्वात् तत्रैव तदधिकरणरचना कृता । एवं तृतीयतृतीयगतं भूमज्यारस्त्वाधिकरणमपि तत्रैव रचयित्वा दर्शितमिति ध्येयम् ।