पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

तस्माद् दिध्यात्मरूपे दिवि तव भवति त्र्यंशमीदृग्विधस्त्वं किं चित्रं भोक्तृभोग्ये यदिह परिगतोऽस्यञ्जनेशानिरुद्धात् । त्वत्तोऽसौ पद्मयोनिर्जनिमधित विराट्र तत्त एवं मनुर्यः पश्चाद् भूमौ पुरस्तादपि लसति निजैः सर्वतः सृष्टिभेदैः॥ १०ः

ब्रह्माण्डं चेद् विराट् स्यात् , अधिकृतपुरुषस्तत्र जातोऽस्तु धाता त्वत्तो जातोऽनिरुद्धस्त्वमसि यदि विराट् स्यात् तदाऽप्येष एषः । ब्रह्मा श्रीमन् ! विराट् चेत् , मनुवचनबलात् तज्जनिः स्यान्मनुः सः ___ व्यूहान् संकर्षणाद्यान् क्रमत उपगतश्चाण्डसृष्टिं तनोषि ॥ १९३

अग्नीन्द्रादीन् वृषाद्रीवर! सृजति भवान् यज्ञक्लृप्तेः परस्तात् देवाः साध्यादयश्च व्यदधुरिह मखं प्रांगितीदं विमृश्यम् । अक्षाद्यं देवशब्दाद्यभिहितमजसंबन्धि मन्यन्त एके मन्ये पूर्वेऽपि केचित् कति चन कथिताः स्युश्च यज्ञात् परस्तात् ।। १९५

इन्द्रो देवा मनुश्चर्षय इह मनुपुत्रादयो ये विभिन्नाः तत्तन्मन्वन्तरेऽत्र प्रथममनिहितास्तत्र केचिद् भवेयुः । स्रष्टा पूर्व प्रयस्य स्वयमपि विहितानेकसर्गः स्वशक्तेः वैकल्यं वीक्ष्य खिन्नस्तव यजनविधौ व्यापृतः श्रीश! यत् स्यात् ।। १९.

यदा नानास्त्रभूषे त्वयि वृषशिखरिद्योतिरूप ! प्रथन्ते ये ते तत्त्वाभिमानात् ऋषय इति सदाप्राप्यभावाञ्च साध्याः । नित्या देवास्त्वदीयाः त इह विधिमुखाशक्तिदृष्टया तदर्थं ___ साक्षाद्वा तन्मुखाद्वा व्यदधत मखमित्यस्तु कस्तत्र दोषः ॥ १९६

आदावाज्याद्यभावात् सुदलतरुमुखः क्लृप्त आज्यं वसन्तः ग्रीष्मश्चेध्मोऽतिशोषी हविरपि नवधान्यागमार्हा शरत् सा । चत्वार्यक्षाणि चान्तः दश च महदहङ्कारभूतानि देह- स्थानि त्रिःसप्तं मन्ये बहिरपि महदादीनि लक्ष्मीश ! सप्त ॥ १९५