पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् १.१०.६. शाण्डिल्यविद्या सत्यं ब्रह्मेत्युपासीत । अथ खलु क्रतुमयोऽयं पुरुषः। स यावत्क्रतुरयम् अस्माल्लोकात् प्रैति, एवंक्रतुर्हामुं लोकं प्रेत्याभिसंभवति । स आत्मानमुपासीत मनोमयं प्राणशरीरं मारूपमाकाशात्मानं कामरूपिणं मनोजवसं सत्यसङ्कल्यं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वा अनु दिशः प्रभृतं सर्वमिदमभ्यात्त- श्रीः । अग्निरहस्यान्तर्गतस्य शाण्डिल्यविद्याभागस्य शारीरके तृतीयतृतीये समानाधिकरणे विचारितत्वात् स भागोऽपि व्याख्याय प्रकाश्यते । समानाधिकरणरचनाप्रकारो बृहदारण्यको (७-६-१.) पनिषद्भाष्यपरिष्कारयोर्द्रष्टव्यः । एतच्छाण्डियविद्यावाक्यार्थवर्णनविवरणादिकमपि छान्दोग्यो (३-१४.) पनिद्भाष्यपरिष्कारयोर्यथावद् द्रष्टुमुचितम् । अतो नात्र प्रतन्यते । सत्यमित्यस्य निर्विकार मिति प्रसिद्धोऽर्थः । तदर्थादरणे ब्रह्मोपासनस्य सत्यत्वज्ञान- त्वानन्तत्वानन्दत्वामलत्वरूपस्वरूपनिरूपकधर्मविशिष्टतयैव सर्वत्रोपास्यतायाः आनन्दाद्यधिकरणसिद्धत्वात् नात्र वाक्ये किश्चिद् विधेयमस्तीति स आत्मानमुपासीतेति वाक्य एवं सर्वगुणविशिष्टपरमात्मोपासनविधानमिति नात्र पक्षे क्लेशः । यदा तु सत्यपदं छान्दोग्ये, 'सर्वं खल्विदं ब्रह्मे 'त्युक्तसमानार्थकत्वसिद्धये, बृहदारण्यके (७-४.), 'तदेतत् त्र्यक्षरे सत्यमिति । स इत्येकमक्षरम् , तीत्येकमक्षरम् , यमित्येकमक्षरम् ' इत्यत्रोक्तरीत्या चेतनाचेतनसर्वनियन्तृ इत्यर्थपरमिष्यते, तदा उक्तविधसत्यत्वविशिष्टब्रह्मोपासने प्रथमवाक्येन विहिते, स आत्मानमिति वाक्येन प्राप्तोद्देशेनानेकगुणविधाने वाक्यमेद इति शङ्का प्राप्नोति । तत्र प्रथमवाक्ये 'उपासनोत्पत्तिविधिः, एवंक्रतुर्हेति वाक्येऽधिकारविधानम् , 'स आत्मान' मिति वाक्ये प्रयोगविधानम् । संभवति च प्रयोगान्वयितयाऽपि गुणानां विधानमिति छान्दोग्ये भाष्यानुसारेण परिष्कारे प्रपञ्चितमनुसंधेयम् । सत्यभित्यारभ्य सर्व वा, यथाव्रीहिरित्यादिकं वा, एष म आत्मेत्यादिकमेव वा शाण्डिल्यानुसंधानमस्तु । सर्वथा अप्राप्तं सर्वमुपासनान्वयितया स्वीकार्य छान्दोग्योक्तसर्वकामत्वादिगुणान्तरवदित्यलमधिकेन । अक्षरार्थस्तावत्-क्रतुरुपासनम् । एवंक्रतुः एवम्भूतोपासनवान् । उपासनप्रचुरो हि पुरुषः । तस्मादुपासनानुगुणफलभाक्त्वात् यत्प्रकारकोपासनमनुष्ठायेमं लोकं विसृजति, अमुत्र लोके तत्प्रकारप्राप्तिमान् भवति । अतः परिशुद्ध मनोग्राह्यं सर्वप्राणधारकं भास्वररूपमव्याकृताकाशस्याप्यत्मभूतमिच्छागृहोताभिमतदिव्यमजलविग्रहं मनोवेगसंप्ननमप्रतिहतसंकल्पमधूष्यधारणशक्तिं सर्वगन्धं सर्वरसं सर्वदिग्व्यापिनं स्वीकृतसर्वकल्याणगुणं .