पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

1 ३०० श्रीवीरराघवाचार्य विरचितपरिष्कारयुक्तम् मवाक्कमनादरम् , यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वा एवमयमन्तरात्मन् पुरुषो हिरण्मयः, यथा ज्योतिरधूमम् एवं ज्यायान् दिवो ज्यायानाकाशात् ज्यायानस्यै पृथिव्यै ज्यायान् सर्वेभ्यो भूतेभ्यः । स प्राणस्यात्मा। एष म आत्मा। एतमित आत्मानं प्रेत्याभिसंभविष्यामीति यस्य स्यादद्धा न विचिकित्साऽस्तीति ह स्माह शाण्डिल्यः । एवमेतदिति ॥२॥ इति अग्निरहस्यम् ( यावदपेक्षितम् ) श्रीरस्तु ब्रह्मादिस्तम्बपतिसर्वजगत्तृणोकरणेन जोषमानीनमवाप्तसमस्तकामतया आदर्तव्याभावादादर- रहितं परमात्मानमुपासीतेति । यथा व्रीहिरित्यादिना अणीयस्त्वमुपासनार्थं कल्पितमुक्तम् । हिरण्मयविग्रहदृष्टान्त उच्यते यथा ज्योतिरधूममिनि । स्वाभाविकं व्यापित्वमुच्यते ज्यायानिति । अद्धा निश्चयः । यस्य, अहमेवम्भूतं प्राप्स्यामीति दृढोऽध्यवसायः, सोऽवश्यं प्राप्स्यत्येव । न तत्र संशयोऽस्तीति। भाष्यादौ विस्तरो द्रष्टव्यः ; यत एतद्विषयकं सर्वप्रसिद्धयधिकरणं समानाधिकरणच्चेति । श्रीमद्वेदान्तसौमित्रिरङ्गलक्ष्मणयोगिनोः । शिष्येणैव विनीतेन वात्स्यसच्चक्रवर्तिना ।। ईशाद्युपनिषद्भाष्यपरिष्कारविधायिना । श्रीवीरराघवेणाग्निरहस्यञ्च परिष्कृतम् ।। इति वात्स्यसच्चक्रवर्तिबीरराघवाचार्य- कृतिषु उपनिषद्भाष्यपरिष्कारे अग्निरहस्यभाष्यपरिष्कारः। शुभमस्तु