पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निरहस्यम् श्रीः अग्निरहस्यभागार्थसंग्रहकारिकाः शारीरके शतपथब्राह्मणाग्निरहस्यगम् । समानाधिक्रियापूर्वविकल्पाधिक्रियाद्वये ॥ १ ॥ वैश्वानराधिक्रियायामपि यस्माद् विचारितम् । तस्मात् तदंशमात्रस्य संग्रहः क्रियतेऽधुना ॥ २ ॥ सर्वसंहरणान्मृत्युरित्युक्त पुरुषं परम् । आदित्यमण्डलादिस्थमुक्त्वा ध्येयं विमुक्तये ॥ ३ ॥ खण्डान्तरे ततः प्रोक्तः क्रतुर्विद्यामयोऽद्भुतः । पुंसा स्वायुर्गतकैकदिनसंभविषु स्वयम् ॥ ४ ॥ मनोवाक्चक्षुरादीनां व्यापारेषु विभाव्यते । यत्र चित्याग्निराधानस्तोत्रशस्त्रग्रहादि च ॥ ५ ॥ अथ चित्याग्निसंबद्धाः विद्याः काश्चन दर्शिताः । वैश्वानरात्मविद्योक्ता छान्दोग्ये विस्तृता हि या ॥ ६ ॥ एतत् सर्वं पञ्चमेऽथ षष्ठे प्रोक्ता यथायथम् ।. शाण्डिल्यविद्या छान्दोम्यबृहदारण्यकस्थिता ।। ७ ।। शुभमस्तु READING LARARY ROOM शोधनम् २८०. पुटे. परिष्कारे-पृण प्रीणने इति शोधनीयम् । TIRUMAL