पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

३०२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता 64 - . श्रीः महोपनिषत् । [ओम् आप्यायन्त्विति शान्तिः ।] अथातो महोपनिषदं व्याख्यास्यामः । तदाहुः एको ह वै श्री: श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । महोपनिषत्परिष्कारः। नारायणं निखिलचेतननिर्विशेष नाथं चतुर्मुखमहेशमुखस्य हेतुम् । नानाविधामननुतं निखलात्मभूतं नारायणाद्रिनिलयं नियतं नमामि ।। श्रीभाष्ये, 'एको हवै नारायण आसीन्न ब्रह्मा नेशानः' इति वाक्यस्य नारायणपारम्यप्रतिपादनार्थमुदाहरणात् , अस्य च वाक्यस्यात्र महोपनिषदि दर्शनात् इयमादरणीयेति स्थितम् आचार्यतल्लजैश्च श्रीमद्वेदान्तदेशिकैः सच्चरित्ररक्षायां सुदर्शनपाञ्चजन्यधारणविधौ इत्थं प्रत्यबोधि एतेन महोपनिषदः कैश्विदनुदाहृतत्वचोद्यमपास्तम् । कति कति दृश्यन्ते भाष्यकारादिभिरनुपात्ता उपनिषदः । न केवलं भगवद्रामानुजमुनिमिरेव महोपनिषदुपात्ता ; अपि तु तत्परमाचार्यैर्भगवद्यामुनमुनिभिरपि पुरुषनिर्णये समुपात्ता ! न चैवमेकसिद्धान्तनिष्ठैरेव तदुपादानम् । अपितु तद्विरुद्धसन्मात्रब्रह्मभेदाभेदनिष्णातै; यादवप्रकाशैरपि भगवद्गीताभाष्येऽष्टमाध्याये । तथा तन्मतानुसारिभिर्नारायणार्यैरपि तत्त्वनिर्णये श्रुतितात्पर्यनिर्णयाधिकारे सोपबृंहणनानाविधश्रुतिशिखरनिकरोदाहरणावसरे महोपनिषदाद्यान् , ' एक एव नारायणः' इत्यादिकान् चतुरो मन्त्रानुदाहृत्य, 'एष। चोपनिषत् , 'एतौ द्वौ विबुधश्रेष्ठौ प्रसादकोधजौ स्मृतौ । तदादर्शितपन्थानौ सृष्टि संहारकारको ' इत्यादिभिरितिहासै:, 'तत्क्रोधसंभवो रुद्रः प्रसादाच्च पितामहः',यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसंभवः' इत्यादिभिः पुराणैश्वोपबृंहिता' इत्युक्तम्" इति । अनेन ब्रह्मरुद्रकारणतया नारायणप्रतिपादिकाया महोपनिषदः प्रामाण्यमास्थेयमिति सिद्धम् । परंतु केयं महोपनिषदिति किश्चिद् विचारणीयं लक्ष्यते, यदत्र सच्चरित्ररक्षासूक्तौ महोपनिषदाद्यतया चत्वारो मन्त्राः, 'एक एव नारायणः' इत्याद्या नारायणार्योदाहृततया वेदिताः अस्यां महोपनिषदि न लक्ष्यन्ते । न केवलमेतावत् । अत्रैव ग्रन्थे पूर्वं परमेश्वरसंहितावचनोदाहरणावसरे, 'स्नापयेद् ब्रह्मसूक्तस्थैर्मन्त्रैरष्टभिरेव च' इति 'दक्षिणे तु भुजे विप्रः इति पश्चिमगेन वै ' इति, 'यद्वा सर्वस्य वशिनमित्याद्यैर्मनुभिः क्रमात् । महोपनिषदन्तःस्थैर्दिक्स्थितैः कलशाष्टकैः । एक एव नारायण इति मध्यगतेन तु' इति चोदाह्रत्यैवं विवृतम् -- अत्र ब्रह्मसूक्तमिति महोपनिषन्मध्यगताः सहस्रशीर्षा इत्याद्याः एकोनविंशतिर्मन्त्राः । तत्रोपरितना अष्टौ . --