पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

होगनिषत् नारायण आसीत् । न ब्रह्मा नेशानो नापो नाग्नीषोमो नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमाः । स एकाकी न रमेत । तस्य ध्यानान्तःस्थस्य यज्ञस्तोममुच्यते । तस्मिन् पुरुषाश्चतुर्दश जायन्ते । एका कन्या। दशेन्द्रियाणि । मन एकादशं तेजः । द्वादशोऽहंकारः। त्रयो- दशकः प्राणः । चतुर्दश आत्मा । पञ्चदशी बुद्धिः । भूतानि पश्च तन्मात्राणि । पञ्च महाभूतानि । स एकः पञ्चविंशतिः पुरुषः । तत्पुरुष पुरुषो निवेश्य । नास्य प्रधानसंवत्सरा जायन्ते । संवत्सरादधिजायन्ते । मन्त्राः, . सर्वस्य वशिन' मित्याद्याः। तत्र, 'दक्षिणे तु भुजे विप्रः' इति पञचमो मन्त्रः । एक एव नारायण' इति महोपनिषदाद्यो मन्त्रः--इति । न चैते मन्त्राः अस्यां महोपनिषदि यथोक्तद्यत्वे लक्ष्यन्ते । तम्मादन्या काचित् महोपनिषदानुपूर्वी अवश्यमेव गवेषणीयाऽस्ति । अथाप्यस्यामपि महोपनिषदि श्रीभाष्योदाहृतवाक्योपलम्भात् नारायणपारम्यस्य निर्विचकित्सं प्रतिपादकत्वाच्चैतत्प्रकाशनमपि स्थाने । एको ह वै नारायण इति सृष्ट्यारम्भे नारायणमात्रसद्भावश्रवणात् , नारायणपदस्य श्रियः- पतौ रूढत्वात् , ब्रह्मेशानादेः तदा सद्भावप्रतिषेधाच्च नारायणपारम्यं निर्विचिकित्सम् । यक्षस्तोममुच्यते। आराधनोपयोगिवस्तुव्यूह उच्यते उपरितनवाक्यरित्यर्थः । उपरि देहेन्द्रियादिसंघाततत्कारणादिकथनात् । पुरुषाश्चतुर्दश जायन्ते इत्यस्य विवरणम् दशेन्द्रियाणीत्यादिना । एका कन्येत्यस्य विवरणम् पञ्चदशी बुद्धिरिति । आत्मेति शरीरमुच्यते । स एकः पञ्चविंशतिः पुरुषः । मनआदीनां बहूूनामेषां स्वामी जीव एको भवति । एकैकस्यापि जीवस्येमानि बहूनि पृथक्पृथगुपकरणानीत्यर्थः । अत्र, 'जगति जीव एक एवास्तीति न विवक्षितम् । किन्तु एतेषां बहूनां स्वामी एको जीवो भवतीयर्थज्ञापनमात्रं चिकोर्षितम् । पुरुषस्य पञ्चविंशत्वं चतुर्विंशतिविधप्रकृति प्राकृतपदार्थाधिकत्वात् । तत् पुरुषं पुरुषो निवेश्येति । पुरुषो नारायणः पुरुषं जीवं निवेश्य तत् पूर्वोक्तं मनादिकमेकसंघातापन्नं करोतीति शेषः । नास्य प्रधानसंवत्सरा जायन्ते। संवत्सरशब्दः प्रजापतौ चतुर्मुखे तत्रतत्र प्रयुज्यते । तस्य संवत्सररूपायुर्गणनया सृष्टिव्यप्ग्रत्वात् । प्रजापतिरूपः संवत्सरः प्रधानभूतो येषाम् , ते जीवाः अस्य परमात्मनः सकाशात् साक्षान्न जायन्ते तस्मात् प्राक् । किन्तु संवत्स. रात् प्रजापतेः अधि ऊर्ध्वं जायन्ते ।